Book Title: Prakrit Pingal Sutrani
Author(s): Lakshminath Bhatta, Sivdatta Pt
Publisher: Tukaram Javaji
View full book text
________________
२३८
काव्यमाला । यथा- . . .
प्रणिपातप्रवणप्रधानाशेषसुरासुरवृन्दसौन्दर्यप्रकटकिरीटकोटिनिविष्टस्पष्टमणिमयूखच्छटाछुरितचरणनखचक्रविक्रमोदामवामपादाङ्गुष्ठनखरशिखरखण्डितब्रह्माण्डविवरनिःसरत्क्षरदमृतकरप्रकरभासुरसुरवाहिनीप्रवाहपवित्रीकृतविष्टपत्रय कैटभारे क्रूरतरसंसारापारसागरनानाप्रकारावर्तविवर्तमानविग्रहं मामनुग्रहाण ॥ ३४४ ॥ यथा वा
व्यपगतघनपटलममलजलनिधिसदृशमम्बरतलं विलोक्यते । अञ्जनचूर्णपुञ्जश्यामं शार्वरं तमस्त्यायते ॥ ३४५ ॥ उत्कलिकाप्रायं निवृत्तम् ॥
वृत्तैकदेशसंबद्धं वृत्तगन्धिः पुनः स्मृतम् ॥ ३४६ ॥ यथा-'पातालतालुतलवासिषु दानवेषु' इत्यादि । 'हर इव जितमन्मथो गुह इवाप्रतिहतशक्तिः' इत्यादि वा।
यथा वा
जय जय जय जनार्दन सुकृतिजनमनस्तडागविकस्वरचरणपद्म पद्मनयन पद्मापद्मिनीविनोदराजहंस भास्वरयशःपटलपूरितभवनकुहर कमलासनादिवृन्दारकवन्दनीयपादारविन्दद्वन्द्व निर्मुक्तयोगीन्द्रहृदयमन्दिराविष्कृतनिरञ्जनज्योतिःस्वरूप नीरूप विश्वरूप अनाथनाथ जगन्नाथ मामनवधिभवहुःखव्याकुलं रक्ष रक्ष ।। ३४७ ॥
वृत्तगन्धि गद्यं निवृत्तम् ॥ इति गद्यानि ॥
इत्यादि गद्यकाव्येषु मया किंचित्प्रदर्शितम् । विशेषस्तत्र तत्रापि नोक्तो विस्तरशङ्कया ॥३४८ ॥ ५. मन्दः कथं ज्ञास्यसि सत्पदार्थमित्याकलय्याशुभया प्रदीप्तम् । हिन्दःप्रदीपं कवयो विलोक्य छन्दः समस्तं स्वयमेव वित्त ॥ अब्दे भास्करवाजिपाण्डवरसक्ष्मा(१६५७)मण्डलोद्भासिते
भाद्रे मासि सिते दले हरिदिने वारे तमिस्रापतेः । मीमत्पिङ्गलनागनिर्मितवरग्रन्थप्रदीपं मुदे लोकानां निखिलार्थसाधकमिमं लक्ष्मीपतिनिर्ममे ॥
१२,

Page Navigation
1 ... 252 253 254 255 256