Book Title: Prakrit Pingal Sutrani
Author(s): Lakshminath Bhatta, Sivdatta Pt
Publisher: Tukaram Javaji
View full book text
________________
२ परिच्छेदः] प्राकृतपिङ्गलसूत्रम् ।
२३१ . उद्ववणिका यथा-SIS, sis, SIS, SIs, sis, sis, sis, sis, sis, । मत्तमातङ्गलीलाकरो निवृत्तः ॥ .
अथानङ्गशेखरःलघुर्गुरुनिजेच्छया यदा निवेश्यते तदैष दण्डको भवत्यनङ्गशेखरः३०५
यत्र प्रथमं लघुरनन्तरं गुरुरेवं क्रमेणाशोकपुष्पमअरीविपर्ययेण स्वेच्छया जगणरगणक्रमेण च जगणान्तं नव गणा लघ्वन्ता वसुनयनवर्णाश्चरणे यदा निवेश्यन्ते, स्वेच्छयोक्तक्रमेण दशैकादश वा प्रतिचरणं नियमेन जगणादिजगणान्तं लध्ववसानं गणाः स्थाप्यन्ते तदैव दण्डकोऽनङ्गशेखराख्यो भवतीति ॥
यथाउदेत्यसौ सुधाकरः पुरो विलोकयाद्य राधिके विजृम्भमाणगौरदीधिती
रतिस्वहस्तनिर्मितः कलाकुतूहलेन चारुचम्पकैरनङ्गशेखरः किमु । इति प्रमोदकारिणीं प्रियाविनोदलक्षणां गिरं समुद्रिन्मुरारिरद्भुतां प्रदोषकाल संगमोल्लसन्मना मनोजकेलिकौतुकी करोतु वः कृतार्थ
___ ताम् ॥ ३०६ ॥ उध्वणिका यथा-SI, SIS,ISI, SIS,SI,SSI,SIS,SI,SIS,२८४४=११२॥अत्र चरणत्रये पादान्तगुरोर्विकल्पेन लघुत्वं ज्ञेयमित्यनङ्गशेखरो निवृत्तः । इति दण्डकाः॥
अथार्धसमवृत्तान्युदाह्रियन्ते-तत्र चतुष्पदी पद्यम् । तद्विविधम् । वृत्तजातिभेदेन । तदप्यक्षरसंख्यातं वृत्तम् । मात्रासंख्याता जातिरिति द्विविधम् । तद्वृत्तं पुनस्त्रिविधम् । समार्धसमविषमभेदेनेति । तत्र समं समचतुश्चरणम् । अर्धसमं च यस्य प्रथमं तृतीयं च पदं समानमथ चतुर्थे द्वितीयं च तुल्यं भवति । भिन्नचिह्नचतुश्चरणं विषममिति । तदुक्तं छन्दोमञ्जर्याम्
'पद्यं चतुष्पदी तच्च वृत्तं जातिरिति द्विधा । वृत्तमक्षरसंख्यातं जातिर्मात्राकृता भवेत् ॥ सममर्धसमं वृत्तं विषमं चेति तत्रिधा । समं समचतुष्पादं भवत्यर्धसमं पुनः ॥ आदिस्तृतीयवद्यस्य पादस्तुर्यो द्वितीयवत् ।
भिन्नचिह्नचतुष्पादं विषमं परिकीर्तितम् ॥' . इति । तत्र मात्रावृत्तक्रमेण सममुक्त्वार्धसममुच्यते । तत्र प्रथमं पुष्पिताग्राछन्दः
द्विजवरकररज्जुकर्णपूर्णौ प्रथमतृतीयपदौ यदा भवेताम् । द्विजपदगुरुरज्जुकर्णयुक्तौ यदि चरणावपरौ च पुष्पिताया ॥ ३०७॥ इदमप्युदाहरणम् । छन्दोमार्या तु प्रकारान्तरेण लक्षणमुक्तम् ॥

Page Navigation
1 ... 245 246 247 248 249 250 251 252 253 254 255 256