Book Title: Prakrit Pingal Sutrani
Author(s): Lakshminath Bhatta, Sivdatta Pt
Publisher: Tukaram Javaji
View full book text
________________
२३०
काव्यमाला ।
यथामूनि चारुचम्पकस्रजासलीलवेष्टनं लसल्लवङ्गचारुचन्द्रिका कचेषु
कर्णयोरशोकपुष्पमञ्जरीवतंसको गलेऽतिकान्तकेसरोपकृप्तदाम। फुल्लनागकेसरादिपुष्परेणुभूषणं तनौ विचित्रमित्युपात्तवेष एष - केशवः सदा पुनातु नः सुपुष्पभूषितः स मूर्तिमानिवागतो मधुर्विहर्तु
मत्र ॥ ३०॥ उध्वणिका यथा-5IS,SI, SIS,ISI, SIS,SIS, SIS, ISI, ISI, २८४४-११२॥ अशोकपुष्पमञ्जरी निवृत्ता ॥
अथ कुसुमस्तबको दण्डक:सगणः सकलः खलु यत्र भवेत्तमिह प्रवदन्ति बुधाः कुसुमस्तबकम् ३०१
यत्र खलु निश्चयेन सकलोऽपि सगण एव भवेत् । सगणनवकं भवेदतश्च सप्तविंशतिवर्णात्मकपदं तं दण्डकं बुधाः कुसुमस्तबकं प्रवदन्ति ॥
यथाविरराज यदीयकरः कनकद्युतिबन्धुरवामदृशां कुचकुड्मलगो
भ्रमरप्रकरेण यथादृतमूर्तिरशोकलताविलसत्कुसुमस्तबकः । स नवीनतमालदलप्रतिमच्छविबिभ्रदतीव विलोचनहारिवपु.
श्वपलारुचिरांशुकवल्लिधरो हरिरस्तु मदीयहृदम्बुजमध्यगतः॥३०२ उद्दवणिका यथा-us, us, us, us, us, us, us, us, us, २७४४=१०८॥ कुसुमस्तबको निवृत्तः ॥
मत्तमातङ्गलीलाकरःयत्र रेफः परं स्वेच्छया गुम्फितः स स्मृतो दण्डको मत्तमातङ्गली
लाकरः ॥ ३०३॥ यत्र रेफो रगणः स्वेच्छया नव दशैकादश वा परं गुम्फितः स दण्डको मत्तमातङ्गलीलाकर इति नाम्ना स्मृतः ॥
यथाहेमगौरे वसानोंऽशुके शक्रनीलासिते वर्मणि स्पष्टदिव्यानुलेपाङ्किते तारहारांशुवक्षोनभश्चित्रमाल्याञ्चितो भव्यभूषोज्ज्वलाङ्गः समं सीरिणा अञ्जनाभाम्बरेणेन्दुकुन्दाभदेहेन लीलापरीहासोर्मिकौतूहलैः कंसरङ्गाद्रिगः पातु वश्चक्रपाणिर्गतिक्रीडया मत्तमातङ्गलीलाकरः३०४

Page Navigation
1 ... 244 245 246 247 248 249 250 251 252 253 254 255 256