SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ २३० काव्यमाला । यथामूनि चारुचम्पकस्रजासलीलवेष्टनं लसल्लवङ्गचारुचन्द्रिका कचेषु कर्णयोरशोकपुष्पमञ्जरीवतंसको गलेऽतिकान्तकेसरोपकृप्तदाम। फुल्लनागकेसरादिपुष्परेणुभूषणं तनौ विचित्रमित्युपात्तवेष एष - केशवः सदा पुनातु नः सुपुष्पभूषितः स मूर्तिमानिवागतो मधुर्विहर्तु मत्र ॥ ३०॥ उध्वणिका यथा-5IS,SI, SIS,ISI, SIS,SIS, SIS, ISI, ISI, २८४४-११२॥ अशोकपुष्पमञ्जरी निवृत्ता ॥ अथ कुसुमस्तबको दण्डक:सगणः सकलः खलु यत्र भवेत्तमिह प्रवदन्ति बुधाः कुसुमस्तबकम् ३०१ यत्र खलु निश्चयेन सकलोऽपि सगण एव भवेत् । सगणनवकं भवेदतश्च सप्तविंशतिवर्णात्मकपदं तं दण्डकं बुधाः कुसुमस्तबकं प्रवदन्ति ॥ यथाविरराज यदीयकरः कनकद्युतिबन्धुरवामदृशां कुचकुड्मलगो भ्रमरप्रकरेण यथादृतमूर्तिरशोकलताविलसत्कुसुमस्तबकः । स नवीनतमालदलप्रतिमच्छविबिभ्रदतीव विलोचनहारिवपु. श्वपलारुचिरांशुकवल्लिधरो हरिरस्तु मदीयहृदम्बुजमध्यगतः॥३०२ उद्दवणिका यथा-us, us, us, us, us, us, us, us, us, २७४४=१०८॥ कुसुमस्तबको निवृत्तः ॥ मत्तमातङ्गलीलाकरःयत्र रेफः परं स्वेच्छया गुम्फितः स स्मृतो दण्डको मत्तमातङ्गली लाकरः ॥ ३०३॥ यत्र रेफो रगणः स्वेच्छया नव दशैकादश वा परं गुम्फितः स दण्डको मत्तमातङ्गलीलाकर इति नाम्ना स्मृतः ॥ यथाहेमगौरे वसानोंऽशुके शक्रनीलासिते वर्मणि स्पष्टदिव्यानुलेपाङ्किते तारहारांशुवक्षोनभश्चित्रमाल्याञ्चितो भव्यभूषोज्ज्वलाङ्गः समं सीरिणा अञ्जनाभाम्बरेणेन्दुकुन्दाभदेहेन लीलापरीहासोर्मिकौतूहलैः कंसरङ्गाद्रिगः पातु वश्चक्रपाणिर्गतिक्रीडया मत्तमातङ्गलीलाकरः३०४
SR No.023478
Book TitlePrakrit Pingal Sutrani
Original Sutra AuthorN/A
AuthorLakshminath Bhatta, Sivdatta Pt
PublisherTukaram Javaji
Publication Year1894
Total Pages256
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy