Book Title: Prakrit Pingal Sutrani
Author(s): Lakshminath Bhatta, Sivdatta Pt
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 240
________________ २२४ काव्यमाला। वसहगमण करतिसुल डमरुधर णअणहि ढाहुअणङ्गं रिउभङ्गं गौरिअधङ्गम् । जअइ जअइ हरि भुजजुभधरुगिरि दहमुहकंसविणासा पिअवासा साअरवासा वलिछलिमहिअलु असुरविलअकरु मुणिअणमाणसहंसा सुहवासा उत्तमवंसा ॥२८८॥ [जयति जगति हरो वलयितविषधर स्तिलकितसुन्दरचन्द्रो मुन्यानन्दः सुखकन्दो वृषभगमनः करत्रिशूलो डमरुधरो नयनेन दग्धानङ्गो रिपुभङ्गो गौर्यर्धाङ्गः । जयति जगति हरिर्भुजयुगधृतगिरि देशमुखकंसविनाशः पीतवासाः सागरवासो महीतलच्छलितवलिरसुरविलयकरो ___ मुनिजनमानसहंसः शुभ्रभास उत्तमवंशः ॥] प्रथमार्धन हरं स्तौति-जगति हरः शिवो जयति । कीदृशः । वलयिता विषधराः सर्पा येन । भुजगकङ्कण इत्यर्थः । पुन:-तिलकितः सुन्दरश्चन्द्रो येन । चन्द्रशेखर इ. त्यर्थः । पुनः-मुनीनामानन्दः । अत एव सुखकन्दः । पुनः-वृषभगमनः । पुनःकरे त्रिशूलं यस्य स तथा । पुनः-डमरुकधरः । पुनः-नयनेन भालस्थतार्तीयलोचनेन दग्धोऽनङ्गो येन स तथा । पुनः-रिपोर्भङ्गो यस्मात्तादृशः। पुनः-गौरी पार्वती अर्धाङ्गे यस्य स तादृशः ॥ अथ चरमार्थेन हरिं स्तौति-जगति हरिविष्णुर्जयति च । कीदृशः । भुजयुगेन धृतो गोवर्धनो गिरिर्येन स तथा । पुनः-दशमुखकंसविनाशनः । पीतवासाः पीताम्बरधर इत्यर्थः । पुनः-सागरवासः कृतक्षीरनीरधिशयन इत्यर्थः । येन वलिच्छलितो महीतले तादृशः । येन चासुराणां विलयः कृतः । यश्च मुनिजनानां मानसे हंस इवो. पास्यमानः। अत एव शुभ्रभासः श्वेतकान्तिः सात्त्विकस्वभावत्वाद्वा तादृश इति । पुन:उत्तमो वंशो यादववंशो यस्य तादृश इति ॥ उद्दवणिका यथा-॥॥॥॥, ॥, ॥ ॥, ॥॥॥, su, ss, us,s,s,II,s, s, ३४४४१३६ ॥ ४२४४=१६८ ॥ मात्राप्रस्तारे एकस्य कथनाद्वितीयं त्रिभङ्गीवृत्तं निवृत्तम् ॥ १. 'वलिछलि महि धरु (वलिं छलयित्वा मही धृता) रवि०. २. 'गण' रविः०.

Loading...

Page Navigation
1 ... 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256