Book Title: Prakrit Pingal Sutrani
Author(s): Lakshminath Bhatta, Sivdatta Pt
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 239
________________ २ परिच्छेदः ] प्राकृतपिङ्गलसूत्रम् । पुण वि गुरुजुअल लहुजुअल वलभ जुअ कर जम्पर णाआ कइराआ सुन्दरकाआ । पअपअ तेहि कहि गअगमणि ससिवअणि बालिसमत्ता कर जुत्ता एहु णिरुत्ता गणि भण सव पअ वसुरस एस प पअ पअला तिअभङ्गी सुहअङ्गी सज्जणसङ्गी ॥ २८७ ॥ [ सकलपदेषु प्रथमं भण दश सुप्रियगणान्भगणस्तथान्ते गुरुयुग्मं हस्तः पतति पुनरपि गुरुयुगलं लघुयुगलं वलय युगं कुरु जल्पति नागः कविराजः सुन्दरकायः । पदे पदे एतावत्कथय गजगमने शशि २२३ वदने द्विचत्वारिंशन्मात्रा: कुरु युक्ता एतन्निरुक्तं गणयित्वा भण सर्वपदेषु वसुरसैकं पदे पदे पतति त्रिभङ्गी सुखाङ्गी सज्जनसङ्गी ॥] हे गजगमने हे शशिवंदने । सकलपदेषु प्रथमं भण दश सुप्रियगणान् लघुद्वयात्मकगणान् भण । तथान्ते भगणः, ततो गुरुयुग्मं ततो हस्तः सगणः पतति । पुनरपि गुरुयुगलम् । अथ च लघुयुगलम् । ततो वलययुगलं गुरुयुगं कुरु । एवं यत्र चतुस्त्रिंशद्वर्णाः पदे पतन्ति । सुखान्यङ्गानि यस्य । सज्जनेषु सङ्गो यस्य तादृशः, सुन्दरकायो रमणीयशरीरः कविराजो नागः पिङ्गलस्तत्रिभङ्गीछन्द इति जल्पति । हे मुग्धे, पदे पदे एतावदेव कथय । अथ च द्विचत्वारिंशन्मात्रा युक्ताः कुरु । एतन्निरुक्तं गणयित्वा सर्वपदेषु द्विचत्वारिंशच्चतुर्गुणिताः - वसवोऽष्टौ रसाः षट् एकं चेति वामगत्याष्टषष्टयुत्तरशतं ( १६८ ) मात्राः पअपअ चतुःपदे पअला पतन्तीत्यर्थः । पदैश्चतुस्त्रिंशद्वर्णचतुष्केण षट्त्रिंशदधिकं शतं (१३६) वर्णा यत्र तत्प्रोक्तलक्षणं त्रिभङ्गीनामकं छन्दो भवतीति समुदितोऽर्थः ॥ त्रिभङ्गमुदाहरति - जहा (यथा ) - जअइ जअइ हर वलइअविसहर तिलइअसुन्दरचन्दं मुणिआणन्दं सुहकन्दं १. ‘वलअ’ रवि०. २. ‘तलहि' रवि० ३. 'रसजुत सअ पअ पअला', रवि ०. ४. 'आणन्द विसकन्द' रवि ०.

Loading...

Page Navigation
1 ... 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256