Book Title: Prakrit Pingal Sutrani
Author(s): Lakshminath Bhatta, Sivdatta Pt
Publisher: Tukaram Javaji
View full book text
________________
२२६
काव्यमाला |
[यत्र फुलं कमलवनं वहति लघु पवनो भ्रमति भ्रमरकुलं दिक्षु विदिक्षु झंकारः पतति बने रौति कोकिलगणो विरहिगणमुखेऽतिविरसम् । आनन्दिता युवजना उल्लसितं रभसान्मनः सरसनलिनीदलकृतशयनः
प्रत्यावृत्तः शिशिरऋतुर्दिवसा दीर्घा भूताः कुसुमसमयोऽद्यागतो बने II] कश्चिद्वसन्तलक्षणेन प्राप्तं सुरभिसमयमुपवर्णयति — यत्र फुलं कमलवनम्, पवनः समीरणो लघु मन्दं वहति, भ्रमरकुलं दिक्षु विदिक्षु भ्रमति । किंच वने झंकारः पतति । यतः कोकिलगणः पिकप्रकरो विरहिगणानां मुखे संमुखेऽतिविरसं यथा स्यात्तथा रौति । कूजतीत्यर्थः । यत्र च आनन्दिता युवजना: । उल्लसितं रभसान्मनो यस्मिन्नेवंविधः । सरसनलिनीदलकृतशयनः कुसुमसमय आगतो वने शिशिरर्तुः पलहु प्रत्यावृत्तः । अत एव वसन्तसमयारम्भाद्दिवसा दीर्घा जाता इति ॥ यथा वा[णीभूषणे ] – 'गोवर्धनगिरिधरमुपचितदितिसुतपरमहृदयमदशमनकरं व्यर्थीकृतजलधरगुरुवरष (र्ष ?) णभरगतभय निजकुलदुरितहरम् । नन्दालयनिवसनकृतवनविलसनविहितविविधरसरभसपरं संवीतवसनधरमरुणकरचरणमनुसर सरसिजनयनधरम् ॥' उवणिका यथा - ss, ॥ ॥ ॥ ॥ ॥ ॥ uu, ॥॥, ॥॥, ॥ऽ, २९×४=११६ ॥ शालूरो निवृत्तः ॥
अथ सवैया छन्द:
छह मत्तह पढमहि दिज्जह मत्त ऐअत्तिस पाए पा
सोलहपञ्चदहहि जइ किज्जह अन्तर अन्तर ठाए ठाइ । चोवीसा स मत्त भणिज्जइ पिङ्गल जम्पइ छन्दसु सार अन्त अ लहूअ लहूअ दिज्जहु णाम सवैआ छन्द अपार ||२९१|| [ षोडश मात्रा: प्रथमं दीयन्तां मात्रा एकत्रिंशत्पादे पादे
षोडशपञ्चदशभ्यां यतिः क्रियतेऽन्तरान्तरा स्थापयित्वा । चतुर्विंशत्युत्तरं शतं मात्रा भण्यन्ते पिङ्गलो जल्पति छन्दःसु सारमन्ते च लघुकं लघुकं दत्त्वा नाम सवैआ छन्दोऽपारम् ॥]
भोः शिष्याः, षडधिका दश षोडश मात्रा: प्रथमं दिजह दीयन्ताम् । एतेन प्रथमा विरतिः षोडशमात्रासु कर्तव्येत्याशयः । पादे पादे प्रतिपादमेकत्रिंशन्मात्राः । तेन द्वितीया विरतिः पञ्चदशमात्रासु विधातव्येति भावः । अत एव षोडशपञ्चदशभ्यां यदि विरतिः क्रियते अन्तरान्तरा स्थापयित्वा विरतिमित्युपरिष्ठात् । समुदितमात्रासंख्यामाह - चतुर्विंशत्युत्तरं शतं मात्रा भण्यन्ते यत्र तत्पिङ्गल छन्दःसु सारं सारभूतमपारं नानाकविसंप्रदाय सिद्धम्, अन्ते च लघुकं लघुकं नियमेन दत्त्वा सवैआनामकं छन्दो जल्पतीति ॥
१. अस्यैकारस्य लघुत्वमाश्रयणीयम्.

Page Navigation
1 ... 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256