Book Title: Prakrit Pingal Sutrani
Author(s): Lakshminath Bhatta, Sivdatta Pt
Publisher: Tukaram Javaji
View full book text
________________
२ परिच्छेदः]
प्राकृतपिङ्गलसूत्रम् ।
अथ शालूरछन्दःकण्णेक पढम दिअ सरसपअह धुआं पअहि पलइ तह ठविअ करं
सल्लूर सुभणि मणहरणि रअणिपहुवअणि कमलदलणअणि वरम् । वत्तीसह मउ पउ ठव हु पअलिअ तह अ मह करअल दिअगणअं
मत्ता वणि सुललिअ छउ चउकल किसकइवर दिणभरभु अअपअम् [कर्ण एकः प्रथमं द्विजाः सरसपदा ध्रुवं पदेषु पतितास्तथा स्थापयित्वा करं . शालूरं सुभणितं मनोहरणि रजनीप्रभुवदने कमलदलनयने वरम् । द्वात्रिंशन्मात्राः पदे स्थापय खलु प्रकटितस्तथा च मध्ये करतलं द्विजगणश्च - मात्राभिर्वर्णैश्च सुललिताः षट् चतुःकला कृता कविवरेण दिनकरभूरादौ
पतितः ॥] हे मग्धे. यत्रैकः कर्णो गुरुद्वयात्मको गणः प्रथमं (पतितः) द्विजाश्चतुर्लघका गणा, सरसपदाः ध्रुवं निश्चितं पदेषु पतिताः । ततः स्थापयित्वा करं गुर्वन्तं सगणं हे मनोहरणि: हे रजनीप्रभुवदने चन्द्रानने, हे कमलदलनयने, तत् वरमतिसुन्दरं शालूरनामकं छन्दः सुतरां भणितम् । छान्दसिकरित्यर्थः । तत्र पदे मात्रानियममाह-पउ पदे द्वात्रिंशत् (३२) मउ मात्राः हु खलु ठव स्थापय । वर्णाः प्रत्यक्षा एव । प्रकारान्तरेणोद्र्वणिकामाह-पअलिअ इति । तह अ तथा च करतलं सगणं प्रकटित इति प्राकट्यमवसानं लक्षयति । तथा च सगणोऽन्ते । तन्मध्ये द्विजगणाश्चतुर्लघुकाः । तान्विशिनष्टि-मात्राभिर्वर्णैश्च सुतरां ललिता मनोरमाः । चउकल चतुष्कलाः छउ षट् किअ कृताः कविवरेण पिङ्गलेनेति । यत्र च दिणअरभु दिनकरभूः कर्णो द्विगुर्वात्मको गणः अअ आदौ परंपतितः । एवमुक्तं भवति-चतुष्कलाः षड्गणा मध्ये, आदौ कर्णः, अन्ते सगणो यत्र तच्छालूरनामकं छन्द इति ॥ वाणीभूषणे तु–'कर्णद्विजवरगणत(त्रि ?)तयनगणमिह रचय ललितमतिकुसुमगणं नारीगणकलितकलितशरकुसुमसुकनककुसुमवरकृतरसनम् । नागाधिपतिगदितमिति च परिमुषितसकलकविनृकुलमतिरुचिरं शालूरममलमिह कलय कमलमुखि मुषितविबुधजनहृदयवरम् ॥'
शालूरमुदाहरति-जहा (यथा)जं फुल्ल कमलवण वहइ लघु पवण भमइ भमरकुल दिसि विदिसं _ झंकार पलइ वण रवइ कुइलगण विरहिअगणमुह अइविरसम् । आणन्दिअ जुअजण उलसु रहसमण सरसणलिाणदलकिअसअणा पल्लट्ठ सिसिररिउ दिवस दिघर भउ कुसुमसमअ अव अविअ वणा ॥

Page Navigation
1 ... 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256