Book Title: Prakrit Pingal Sutrani
Author(s): Lakshminath Bhatta, Sivdatta Pt
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 237
________________ २ परिच्छेदः] प्राकृतपिङ्गलसूत्रम् । २२१ सादरमन्तरमुत्तरनागरसंसदि ॥' उद्दवणिका यथा-su, su, su, su, su, su, su, su, २४४४-९६ ॥ किरीटो निवृत्तः ॥ अथास्मिन्नेव प्रस्तारे ग्रन्थान्तरात्तन्वीनामकं छन्दोऽभिधीयतेभूतमुनीनैर्यतिरिह भतनाः स्भौ भनयाश्च यदि भवति तन्वी॥२८॥ भोः शिष्याः, यत्र भूतैः पञ्चभिः, मुनिभिः सप्तभिः, इनैदशभिर्यतिर्विश्रामो भवति। । अथ च-भतना भगणतगणनगणाः, अथ च-स्भौ सगणभगणौ, अथ च-भगणनगणयगणा यदि भवन्ति तदा तन्वीनामकं छन्दो भवतीति ॥ यथामाधव मुग्धैर्मधुकरविरुतैः कोकिलकूजितमलयसमीरैः कम्पमुपेता मलयजसलिलैः प्लावनतोऽप्यधिगततनुदाहा । पद्मपलाशैविरचितशयने देहजसंज्वरभरपरिदून निश्वसती सा मुहुरतिपरुषं ध्यानलये तव निवसति तन्वी॥२८२॥ उद्दवणिका यथा-su,ss,,us,su, su,,ss, २४४४=९६॥ तन्वी निवृत्ता ॥ अत्रापि प्रस्तारे चतुर्विंशत्यक्षरस्यैका कोटिः सप्तषष्टिलक्षाणि सप्तसप्ततिसहस्राणि षोडशोत्तरं शतद्वयं (१६७७७२१६) भेदाः। तेषु दिङ्मात्रमुदाहृतम् । शेषभेदाः शास्त्रोक्तरीत्या प्रस्तार्य सुधीभिरुदाहर्तव्या इत्यलमिति ॥ अथ क्रमप्राप्तं पञ्चविंशत्यक्षरप्रस्तारे ग्रन्थान्तरात्क्रौञ्चपदाछन्दो लक्ष्यते-- क्रौञ्चपदा स्याद्भो मसभाश्चेदिषुशरवसुमुनियतिरनु लघुगैः।।२८३॥ भोः शिष्याः, यत्र पूर्व भो भगणः, ततो मसभा मगणसगणभगणा भवन्ति । अथ चइषुभिः पञ्चभिः, शरैः पञ्चभिः, वसुभिरष्टभिः, मुनिभिः सप्तभिश्चेद्यतिर्विश्रामः किंच भमसभानन्तरमनु लघुगैर्गुर्वन्तैर्द्वादशलघुभिः संभूय पञ्चविंशतिभिर्वर्णैर्यत्र पदं तदा सा क्रौवपदा तन्नामकं वृत्तं भवतीति ॥ यथाक्रौञ्चपदालीचित्रिततीरा मदकलखगकुलकलकलरुचिरा फुल्लसरोजश्रेणिविलासा मधुमुदितमधुपरवरमसकरी । फेनविलासप्रोज्ज्वलहासा ललितलहरिभरपुलकितसुतनुः पश्य हरेऽसौ कस्य न चेतो हरति तरलगतिरहिमकिरणजा॥२८४॥ उद्दवणिका यथा-5॥, sss, us, su, n, 5, २५४४=१०० ॥ कचिदत्र नवमाक्षरलघुत्वम् । तत्रोवणिकायां तृतीयो नगण इति वेदितव्यमिति ॥ अत्रापि १. 'मसगाश्चेदिषुशरमुनियतिमनुलघुगैः' इति छन्दोमञ्जरीपुस्तकपाठः.

Loading...

Page Navigation
1 ... 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256