Book Title: Prakrit Pingal Sutrani
Author(s): Lakshminath Bhatta, Sivdatta Pt
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 235
________________ २ परिच्छेदः] प्राकृतपिङ्गलसूत्रम् । २१९ दुर्मिलामुदाहरति-जहा (यथा)पहुदिज्जिअ वैज्जअ सज्जिअ टोप्परु कङ्कण बाहु किरीट सिरे पइ कण्णहि कुण्डल जं रइमण्डल ठाविअ हार लुरत्त उरे । पइअङ्गुलि मुन्दरि हीरहि सुन्दरि कश्चणविज्जुसुसज्जतणू तैह दूणउ सुन्दर तावअ णाअअ तं खण सुन्दरसेसधणू ॥ [प्रभुणा दापितं वाद्यं सज्जितं शिरस्त्राणं कङ्कणं बाहौ किरीटं शिरसि पातयित्वा कर्णयोः कुण्डलं यथा रविमण्डलं स्थापितो हारो लुठन्नुरसि । प्रत्यङ्गुलि मुद्रिका हीरैः सुन्दरी काञ्चनविद्युत्सुसज्जतनू तथा द्वावपि सुन्दरौ स्तावको नायकस्तत्क्षणं सुन्दरशेष(?)धनुषौ ॥] प्रभुणा नरपतिना दापितं वाद्यं प्रयाणार्थ दुन्दुभिनादः समाज्ञप्त इत्यर्थः ॥ ततश्च सजीकृतं टोप्परु शिरस्त्राणम् । 'टोपर मत्थअ' इति क्वचित्पाठः । तत्र शिरस्त्रं मस्तके दत्तम् । कङ्कणो बाहौ दत्तः । शीर्षे किरीटो मुकुटं दत्तम् । अपि च पातयित्वा कर्णयोः कुण्डलं यथा रविमण्डलं मार्तण्डमण्डलमिव भासमानं स्थापितो हारो लुठन्नुरसि, प्रत्यङ्गलि मुद्रिका हीरकैः सुन्दरी दत्ता । एवं च काञ्चनविद्युद्वत् सुसज्जा तनुर्ययोः, तथा द्वावपि सुन्दरौ । कौ तावित्याह-स्तावकः कविः, नायकश्च । तत्क्षणे सुन्दरसेष(शे)ध. नुषौ विरेजतुरित्यर्थात् ॥ यथा वाणीभूषणे-'कति सन्ति न गोपकुले ललिताः स्मरतापहताश्च विहाय च ता रतिकेलिकलारसलालसमानसमुण्डितमान[समान]रसम् । वनमालिनमालिनमस्य नमस्य चिरस्य [चिरस्य] वृथा भविता परितापवती भवती [भवती] . युवतीजनसंसदि हासकथा ॥' उद्दवणिका यथा-us, us, us, us, us, us, us, ॥७, २४४४९६ ॥ दुर्मिला निवृत्ता ॥ . अथ किरीटछन्दःठावहु आइहि सकगणा तह सल्ल विसज्जहु वे वि तहापर णेउर सद्दजुअं तह णेउरए परिबारह सं(छ)कगणा कर । काहलजुग्गल अन्त करिज्जसु एपरि चौविस वएण पआसहु बत्तिस मत्त पअप्पअ लेखउ अट्ठ अआर किरीट विसेसहु॥२७९॥ . [स्थापयतादौ शक्रगणं तथा शल्यं विसर्जयत द्वावपि तदुपरि नूपुरं शब्दयुगं तथा नूपुरमेतया परिपाट्या द्वादश शक्रगणं कृत्वा । १. 'रज्जअटोप्पर मत्थअ (राज्यं शिरस्त्रं मस्तके) रवि०. २. 'रज्जुसुमज्झतनू (रज्जुसुमध्यतन:) रवि०. ३. 'तसु तूणहु (तस्य(?)तनौ) रवि०. ४. 'भव्य (भव्य)' रवि०.

Loading...

Page Navigation
1 ... 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256