Book Title: Prakrit Pingal Sutrani
Author(s): Lakshminath Bhatta, Sivdatta Pt
Publisher: Tukaram Javaji
View full book text
________________
२ परिच्छेदः] प्राकृतपिङ्गलसूत्रम् ।
२१७ दश मुखानि दशमुखस्य कर्तितानि। खण्डितानीत्यर्थः । येन च कृतरामकृष्णावतारेण कंसकेशिनोविनाशः कृतः । येन च धृतबुद्धशरीरेण करुणा दया प्रकटिता । येन च कृतकल्किरूपेण म्लेच्छा विलापिता विलीनाः कृताः । स नारायणो युष्मभ्यं वरमभिलषितफलं ददात्विति ॥ यथा वाणीभूषणे]-'शरदिन्दुसमानं व्यपगतमानं गायति दिक्षु तवैव यशः स्वरसामुनिदेवी विगलितनीवीकामकलाविकला बहुशः । पृथुवेपथुयुक्ता स्वगृहवियुक्ता स्वेदकलावलिमुग्धमुखी धरणीरमणेन्दो विकसदमन्दोदारसभासहवर्तिमुखी ॥' उद्ववणिका पथा-us, us, su, ॥, sss, I, Is, si, s, us, २३४४=९२ ॥ सुन्दरी निवृत्ता॥ अथास्मिन्नेव प्रस्तारे ग्रन्थान्तरादद्रितनयानामकं वृत्तमुच्यतेनजभजभा जभौ लघुगुरू बुधैस्तु गदितेयमद्रितनया ॥ २७३ ॥ यत्र नगणजगणभगणजगणभगणा भवन्ति । अथ च जभौ जगणभगणौ, अथ च लघुगुरू भवतः साद्रितनया निगदिता । तन्नामकं छन्द इत्यर्थः॥ यथाखरतरशौर्यपावकशिखापतङ्गनिभभनदृप्तदनुजो
जलधिसुताविलासवसतिः सतां गतिरशेषमान्यमहिमा । भुवनहितावतारचतुरश्चराचरधरोऽवतीर्ण इह यः
क्षितिवलयेऽस्ति कंसशमनस्तवेति तमवोचदद्रितनया ॥२७॥ यथा वा-'विलुलितपुष्परेणुकपिशप्रशान्तकलिकापलाशकुसुमम्' इत्यादि भट्टिकाव्ये । उध्वणिका यथा-1, ISI, Su, Isi, su, ISI, su,1, 5, २३४४-९२ ॥ क्वचिदिदमेवाश्वललितमिति नामान्तरेणोक्तम् ॥ अद्रितनया निवृत्ता ॥
अथ मत्ताक्रीडं छन्दःमत्ताक्रीडं वस्वक्षाशायति मयुगगयुगमनुलघुगुरुभिः ॥ २७५ ॥ यत्र वसुभिरष्टभिः, ततोऽक्षैः पञ्चभिः, तत आशाभिर्दशभिर्यतिर्यत्र तत् । किंच मगणद्वयं गुरुद्वयं यत्र तदनु चतुर्दशलघूनामन्ते गुरुः । एवं त्रयोविंशतिभिर्वर्णैः पदं यत्र तन्मत्ताक्रीडं नाम छन्दः ॥
यथा
मुग्धोन्मीलन्मत्ताक्रीडं मधुसमयसुलभमधुरमधुरसं
गाने पाने किंचित्स्पन्दत्पदमरुणनयनयुगलसरसिजम् । रासोल्लासक्रीडत्कम्रव्रजयुवतिवलयरचितभुजरसं
सान्द्रानन्दं वृन्दारण्ये स्मरत हरिमनघपदपरिचयदम् ॥२७६॥ २८

Page Navigation
1 ... 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256