Book Title: Prakrit Pingal Sutrani
Author(s): Lakshminath Bhatta, Sivdatta Pt
Publisher: Tukaram Javaji
View full book text
________________
२२०
काव्यमाला |
काहलयुगलमन्ते कुर्वनयैव परिपाठ्या चतुर्विंशतिवर्णान्प्रकाशयत द्वात्रिंशन्मात्राश्च पदे पदे लेखश्चाष्टौ भकाराः किरीटं विशेषयत ॥] भोः शिष्याः, स्थापयतादौ शक्रगणमाद्यन्तस्थितगुरुकं षड्कलमित्यर्थः । तथा तस्याग्र सल्ल विसजहु वे वि द्वौ शल्यौ लघुद्वयं विसर्जयत । तहपरि तदुपरि नूपुरं गुरुं विसर्जयत इत्यन्वयः । ततः शब्दयुगं लघुद्वयम् । तथा नूपुरं गुरुम् । एपरि अनया परिपाट्या षङ्गणाः पुनः कर्तव्याः । एवं द्वादश गणाः । आदौ शक्रगणं कृत्वान्ते काहलयुगलं लघुद्वयं कुरु । अनयैव च रीत्या चतुर्विंशतिवर्णान् प्रकाशयत । द्वात्रिंशन्मात्राश्च पदे पदे कुरुतेति शेषः ॥ प्रकारान्तरेण गणनियममाह – अष्टौ भगणान्गुर्वादिकान्गणान्विसर्जयत नान्यान् । एतदतिरिक्तगणदाने मात्रा नियमभङ्गाच्छन्दोभङ्गत्वमिति भावः ॥ ....... ॥ वाणीभूषणे तु — ' पादयुगं कुरु नूपुरसुन्दरमत्र करं वररत्नम - नोहरवज्रयुगं कुसुमद्वयसंगतकुण्डलगन्धयुगं समुपाहर । पण्डितमण्डलिकाहृतमानसकल्पिंतसज्जनमौलिरसालय पिङ्गलपन्नगराजनिवेदितवृत्त किरीटमिदं परिभावय ॥ '
....
......
किरीटमुदाहरति - जहा (यथा ) -
बप्पभत्ति सिरे जिणि लिज्जिअ रेज्ज विसज्जि चले बिणु सोदर सुन्दरि सङ्गहि लग्ग इकल्लिअ मारु विराधकबन्ध तहा घर | मारुइ मिल्लिअ वालि वहल्लिअ रज्जु सुगीवहि दिज्जु अकट्टअ
बन्धि समुन्द विघालिअ रावण सो तुम राहव दिज्जउ णिब्भअ || [पितृभक्तिः शिरसि येन गृहीता राज्यं विसृज्य चलितो विना सोदरं
सुन्दरी सङ्गे लग्नैकला मारितौ विराधकबन्धी तथा धृत्वा । मारुतिर्मिकितो वाली विघातितो राज्यं सुग्रीवाय दत्तमकष्टेन
बद्ध्य समुद्रं विघातितो रावणः स तुभ्यं राघवो ददातु निर्भयम् ॥] येन रामेण पितृभक्तिः शिरसि गृहीता । यश्च राज्यं विसृज्य चलितो विना सोदरम् । येन सहैकलैव सुन्दरी सीता लग्ना । ततो येन विराधः काकः कबन्धो योजनबाहुर्धृत्वा मारितः । ततो मारुतिर्हनुमान्मिलितो यस्य । वाली च येन व्यापादितः । तद्राज्यं सुग्रीवाय दत्तमकष्टेनानायासेनेत्यर्थः । बद्धा च समुद्रं विघातितो रावणो दशकण्ठो येन । स राघवो दाशरथिस्तुभ्यं निर्भयं ददात्विति ॥ यथा वा[णीभूषणे ] - 'मल्लि लते मलिनासि किमित्यलिना रहिता भवती बत यद्यपि सा पुनरेति शरद्रजनी तव या तनुते धवलानि जगन्त्यपि । षट्पदकोटिविघटितकुङ्खलकोटिविनिर्गतसौरभसंपदि न त्वयि कोऽपि विधास्यति
१. 'तजिअ रन वणन्त चले विण सोदरसुन्दरि सङ्गहि लग्गिअ मारु (त्यक्तं राज्यम् । वनान्ते पुनश्चलितः। सोदरसुन्दर्यौ स लग्नौ । मारितो ) ' रवि ०.

Page Navigation
1 ... 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256