Book Title: Prakrit Pingal Sutrani
Author(s): Lakshminath Bhatta, Sivdatta Pt
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 234
________________ २१८ काव्यमाला । उवणिका यथा - sss, sss, s, s, i॥॥॥, ८, २३४४= ९२ ॥ मत्ताक्रीडं निवृत्तम् ॥ अत्रापि प्रस्तारगत्या त्रयोविंशाक्षरस्य वृत्तस्य त्र्यशीतिलक्षाण्यष्टाशीतिसहस्राण्यष्टोत्तराणि षट्शतानि (८३८८६०८) भेदाः । तेषु कियन्तो भेदाः प्रोक्ताः । शेषभेदाः शास्त्रो - क्तरीत्या प्रस्तार्य सूचनीयाः सुधीभिराकरतो वा समुदाहर्तव्या इति दिगुपदिश्यते ॥ अथ चतुर्विंशत्यक्षरप्रस्तारे दुर्मिलाछन्दोऽभिधीयते - दुमिलाइ सहु वण्ण विसेसहु दीस फणीन्दह चारुगणा भणु मत्त बतीसह जाणिअ सेसह अट्ठहि ठाम ठई सगणा । गण अण्ण ण किज्जइ कित्ति मुणिज्जइ लग्गइ दोस अणेअ जही कहि तिणि विरामहि पाअह ता दह अट्ठ चउद्दह मत्त सही ॥ २७७ [दुर्मिलां प्रकाशयत वर्णान्विशेषयत दृष्टाः फणीन्द्रेण चारुगणा भणिता मात्राभिर्द्वात्रिंशद्धिर्ज्ञायते शेषेणाष्टसु स्थानेषु स्थापयित्वा सगणान् । गणोऽन्यो न क्रियते कीर्तिर्ज्ञायते लगन्ति दोषा अनेके यत्र कृत्वा त्रीन्विरामान्पादे ता दशस्वष्टसु चतुर्दशसु मात्रासु सत्यम् ॥] भोः शिष्याः, दुर्मिलाछन्दसि प्रकाशयति (त), वर्णान् विसेसहु विशिष्टान् विशेषतो वा विशेषयत । तान्विशेषणविशिष्टान्कुरुतेत्यर्थः ॥ तान्विशिनष्टि – ये वर्णाः फणीन्द्रेण दवकराधीश्वरेण पिङ्गलेन चारुगणत्वेन दीस दृष्टाः । ते च गणाः शेषेण द्वात्रिंशद्भिर्मात्राभिर्ज्ञायत इति भणिताः । तानाह - अष्टस्वपि स्थानेषु स्थापयित्वा सगणान् । अत्र चतुष्कलात्मकगणाष्टकस्थापनेन द्वात्रिंशन्मात्रात्मकं पदमिति भावः । अथ च त्रिवर्णात्मक गणाष्टकविन्यासेनैव वेदलोचन (२४) वर्णात्मकश्चरणो भवतीति भावः ॥ इतरगणनिषेधमाह – गणेति । अन्यो गणः सगणातिरिक्तोऽस्मिन्वृत्ते न क्रियते । अत एवेतरगणव्यावृत्त्या सगणकरणेन कवेः कीर्तिः मुणिज्जइ ज्ञायत इत्यर्थः ॥ अन्यगणकरणे दोषा अनेके लगन्ति यत्र ॥ यद्यप्यन्यगणकरणे प्रकृतप्रस्तारवर्णसंख्या विद्यत एव । तथापि सगणस्य चतुष्कलत्वादष्टसमणविरचनेन प्रोक्तविरतिसहितनयनानल (३२) कलाकलितमेतत्पदम्, अन्यथाधिककलगणत्वात्प्रोक्तनियमहीनतरछन्दोभङ्गमावहेदित्याशयः ॥ अथात्र यतिनियममाह — कहि इति कृत्वा विरामत्रयं विरतित्रयं पादे तत्र ताः विरतयः प्रथमं दशमात्रासु, पुनरष्टमात्रासु, ततश्चतुर्दशमात्रासु सही सत्यं भवन्तीत्यर्थः । तत्प्रोक्तलक्षणं दुमिलानामकं वृत्तमिति ।। भूषणेऽप्युक्तम् - 'विनिधाय करं गुरुरत्नमनोहरबाहुयुगं कुरु रत्नधरं सगणं च ततः कुरु पाणितलं वरपुष्पयुगं विनिधाय गुरुम् । इति दुर्मिलका फणिनायकसंरचिता किल वर्णविलासपरा चतुराश्रितविंशतिवर्णकृता कविता सुकृताश्रयशिल्पधरा ॥'

Loading...

Page Navigation
1 ... 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256