Book Title: Prakrit Pingal Sutrani
Author(s): Lakshminath Bhatta, Sivdatta Pt
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 238
________________ २२२ काव्य माला । प्रस्तारगत्या पञ्चविंशत्यक्षरस्य कोटित्रयं पञ्चत्रिंशलक्षाणि चतुःपञ्चाशत्सहस्राणि, द्वात्रिंशदुत्तराणि चतुःशतानि च (३३५५४४३२) भेदाः । तेषु दिगुपदर्शनार्थमेकं वृत्तमुक्तम् । वृतान्तराणि च प्रस्ता सुधीभिरुह्यानीति शिवम् ॥ अथ षड्शित्यक्षरप्रस्तारे ग्रन्थान्तरादेव भुजङ्गविजृम्भितं छन्दोऽभिधीयतेवस्वीशाश्वच्छेदोपेतं ममतननयुगरसल गैर्भुजङ्गविजृम्भितम् ||२८५|| भोः शिष्याः, यद्वसुभिरष्टभिः, ईशैरेकादशभिः, अश्वैः सप्तभिश्च छेदोपेतं विश्रामयुक्तम्, अथ—मगणद्वयतगणनगणनयुगलरगणसगणलघुगुरुभिः षड्डुिशत्यक्षरैः पदं यत्र तजङ्गविजृम्भितं नाम वृत्तं भवतीति ॥ यथा हेलोदञ्चन्यञ्चत्पादप्रकटविकटनटनभरो रणत्करतालकचारुप्रेङ्खच्चूडाबर्हः श्रुतितरलनवकिसलयस्तरङ्गितहारधृक् । त्रस्यन्नागस्त्रीभिर्भक्त्या मुकुलितकरकमलयुगं कृतस्तुतिरच्युतः पायान्नश्छिन्दन्कालिन्दीहूदकृतनिजव सतिबृहद्भुजङ्गविजृम्भितम् ॥ उवणिका यथा — Sss, sss, ssi, ॥, ॥, ॥, sis, ॥S, I, ऽ, २६४ ४=१०४ ॥ भुजङ्गविजृम्भितं निवृत्तम् ॥ अत्रापि प्रस्तारगत्या रसलोचन (२६) वर्णस्य कोटिषट्कमेकसप्ततिलक्षाणि वसुसहस्राणि चतुःषष्टयुत्तराण्यष्टौ शतानि च (६७१० ७१०८८६४) भेदाः । तेष्वेको भेदोऽभिहितः शेषभेदा विशेषबुद्धिभिराकरात्प्रस्ताररीत्या वा प्रस्तार्य स्वेच्छया नामान्यारचय्य सूचनीया इति दिङ्मात्रमुपदिश्यत इति सर्वमवदातमिति ॥ एवं चैकाक्षरादिषडूिंशत्यक्षरपर्यन्तं प्रत्येकं प्रस्तारपिण्डसंख्या 'रसलोचन सप्ताश्वचन्द्रदृग्वेदवह्निभिः । आत्मना योजितैर्वामगत्या ज्ञेया मनीषिभिः ॥' इति निर्दिष्टदिशा त्रयोदश कोटि (?) द्विचत्वारिंशलक्षाणि सप्तदश सहस्राणि षड्विंशत्युत्तराणि सप्त शतानि च (१३४२१७७२६) समस्तप्रस्तारस्य 'छैव्वीसा सत्त सआ तह सत्तारह सहस्साई । बाआलीसं लक्खं तेरह कोडी समग्गाई ॥' इति गाहूच्छन्दसा पूर्वोक्तपिण्डसंख्या सिंहावलो - कनशालि भिरनुसंधातव्येति सर्वमन वद्यम् ॥ अथ प्रस्तारोत्तीर्णानि मुक्तकानि कानिचिद्वृत्तानि वर्णनियमसहितान्याह — तत्र प्रथमं त्रिभङ्गीछन्द: सअल अहि पढम भण दह सुपिअ गण भगणा तह अन्ता गुरजग्गा हत्थ पलन्ता १. ' षडूिंशतिः सप्त शतानि तथा सप्तदश सहस्राणि । द्विचत्वारिंशलक्षाणि त्रयोदश कोट्यः समप्राणि॥' इति च्छाया. २. 'गुरुकन्ता. हत्यागर्णन्ता (गुरुः कान्तो हस्तगणः ) ' रवि ०

Loading...

Page Navigation
1 ... 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256