Book Title: Prakrit Pingal Sutrani
Author(s): Lakshminath Bhatta, Sivdatta Pt
Publisher: Tukaram Javaji
View full book text
________________
२१४
काव्यमाला |
जे वत्तीसा मात्ता थक्के पअपर पअलिअ गुरुलहुसोहा
एसा हंसी णामा छन्दो सभलवुह अणमणहरणमोहा ॥ २६७ ॥ [विद्युन्मालापादपाते त्रयो द्विजगणास्तथा बहुगुणयुक्ता
अन्ते कर्णशुद्धौ वर्णौ भणति फणिपतिः कविवरो गुणयुक्तः । यत्र द्वात्रिंशन्मात्रास्तिष्ठन्ति पादे पादे प्रकटिता गुरुलघुशोभा एषा हंसी नाम छन्दः सकलबुधजनमनोहरणमोहा ||]
भोः शिष्याः, यत्र विद्युन्मालाया वसु ( ८ ) गुरुचरणायाः पादपाते सति त्रयो द्विजगणाश्चतुर्लघ्वात्मकगणाः, तथा बहुगुणयुक्ताः पतन्तीत्यर्थः । तस्यान्ते वसुगुरुद्विजगणत्रयान्ते कर्णेन द्विगुर्वात्मकेन गणेन शुद्धौ वर्णौ यत्र यत्र च पदे पदे प्रतिपदं गुरुदशकद्वै - गुण्येन विंशतिः (२०) द्विजत्रयाणां (?) दिनकर ( १२ ) लघवः संभूय द्वात्रिंशन्मात्राः प्रकटिताः । एवं यत्र गुरूणां लघूनां प्रकटितणेमा (शोभा) स ( त ) देतद्धंसी नामकं छन्दः सकलबुधजनमनोहरणे मोहा मोहरूपं पण्डितजनमनोविस्मायकमिदं गुणयुक्तः कविवरः फणिपतिर्भणतीति जानीत ॥ वाणीभूषणेऽप्युक्तम् -' यस्यामष्टौ पूर्वे दीर्घास्तदनु कमलमुखि दिनकरसंख्या ह्रस्वा वर्णाः पीनोत्तुङ्गस्तनभरविनमितसुभगशरीरे । दीर्घावृत्त्या लीलालोले यतिरिह् विरमति कुलगिरिषष्ठैर्द्वाविंशत्या वर्णै: पूर्णा प्रभवति कुसुममृदुलतरहंसी ॥' छन्दोमञ्जर्यामपि - 'मौ गौ नाश्चत्वारो गो गो भवति वसुभुवनयतिरिह हंसी ।' मौ 'मगणद्वयम्, अथ च गौ गुरुद्वयम्, तदनन्तरं चत्वारो ना नगणचतुष्टयमित्यर्थः । त तश्च गो गो गुरुद्वयमेव यत्र भवति । यतिस्तु प्रथमं वसुष्वष्टसु ततो भुवनैश्चतुर्दशभिर्भवतीति विश्रामभेदेनोक्तम् ॥
यत्र
हंसीमुदाहरति-- जहा (यथा) -
णेत्ताणन्दा उग्गे चन्दा धवलचमरसमसिअकरविन्दा
उग्गे तारा तेआहारा विअसु कमलवण परिमलकन्दा । भासा कासा सव्वा आसा महुरपवण लहलहिअ करता हंसा सद्दू फुल्लावन्धू सरअसमय सहि हिअअ हरन्ता ॥ २६८ ॥ (नेत्रानन्द उदेति चन्द्रो धवलचमरसमशीतकरविन्दवः
उद्यन्ति तारास्तस्याहारा विकसितं कमलवनं परिमलकन्दम् । भासन्ते काशाः सर्वाशासु मधुरपवनो मन्दमन्दसंचरणं करोति
हंसः शब्दायते पुष्पबन्धुः शरत्समयः सखि हृदयं हरति ॥ ] काचित्प्रौढा नायिका शरत्समयमुपवर्णयन्ती निजसखी माह – हे सखि, लोचनानन्दकारी चन्द्र उदेति किं च धवलचमरसमशीतकरबिन्दव इव तारा तेआ
नेत्रानन्दो

Page Navigation
1 ... 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256