Book Title: Prakrit Pingal Sutrani
Author(s): Lakshminath Bhatta, Sivdatta Pt
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 229
________________ प्राकृतपिङ्गलसूत्रम् । [पुष्पितं किंशुकं चम्पकं तथा प्रकटितं मञ्जरीतेजिताश्चता: दक्षिणवायुः शीतो भूत्वा प्रवहति कम्पति वियोगिनीहृदयम् । केतकीधूलिः सर्वदिक्षु प्रसरिता पीताः सर्वा भासन्ते २ परिच्छेदः] आगतो वसन्तः किं सखि करिष्यामि कान्तो न तिष्ठति पार्श्वे ॥] काचित्प्रोषितपतिका निजसखीमाह - हे सखि, पुष्पितं किंशुकम् । चम्पकमपि तथा प्रकटितं विकसितमित्यर्थः । चूता आम्रवृक्षा मञ्जर्या तेजिता जातमञ्जरीका जाता इत्यर्थः । किंच दक्षिणो वातो मलयानिलः शीतो भूत्वा प्रवहति । अतः कम्पते वियोगिनीहृदयम् । अथ च केतकीधूलिः सर्वदिक्षु प्रसृता । अतः पीतं सर्वतो भासते इत्यादिलक्षणवशतो वसन्त आगतः । अतः कारणात्सखि, किं करिष्यामि कथं वा नेष्यामि दिवसानेतान् । कान्तः पार्श्वे न तिष्ठति । यथा वा[णीभूषणे ] – 'पङ्कजकोषपानपरमधुकरगीतमनोज्ञतडागः पञ्चमनादवादपरभृतकानननसत्परभागः । वल्लभविप्रयुक्तकुलवरतनुजीवनदानदुरन्तः किं करवाणि वक्षि मम सहचरि संनिधिमेति वसन्तः ॥' उद्यवणिका यथाs, sIs, I, I, I, III, s, I, ISI, I, SS, २१४४=८४ ॥ नरेन्द्रो निवृत्तः ॥ अथास्मिन्नेव प्रस्तारे ग्रन्थान्तरात्सरसीछन्दो लक्ष्यते नजभजजा जरौ यदि तदा गदिता सरसी कवीश्वरैः || २६५ || यत्र नगणजगणभगणजगणजगणा भवन्ति । अथ च जरौ जगणरगणौ भवतो यदि तदा कवीश्वरैः सा सरसी गदिता । तन्नामकं छन्द इत्यर्थः ॥ यथा चिकुरकलापशैवल कृतप्रमदासु लसद्रसोर्मिषु स्फुटवदनाम्बुजासु विलसजवालमृणालवलिषु | कुचयुगचक्रवाकमिथुनानुगतासु कलाकुतूहली व्यरचयदच्युतो व्रजमृगीनयनासु विभ्रमम् || २६६ ।। २१३ - यथा वा- -- “ तुरगशताकुलस्य परिताः परमेकतुरंग जन्मनः प्रथितभूभृतः प्रतिपथं मथितस्य भृशं महीभृता । परिचलतो बलानुजबलस्य पुरः सततं घृतश्रियश्चिर गलितधियो जलनिधेश्च तदाभवदन्तरं महत् ॥ इति माघे ॥ उद्यवणिका यथा ॥]], ISI, SII, ISI, ISI, ISI, SIS, २१×४= ८४ ॥ इदमेव ग्रन्थान्तरे 'सिद्धकम्' इति नामान्तरेणोक्तम् ॥ सरसी निवृत्ता ॥ अत्रापि प्रस्तारगत्यैकविंशत्यक्षरस्य नखलक्षं सप्तनवतिसहस्राणि द्विसमधिकपञ्चाशदुत्तरं च शतं २०९७१५२ भेदा भवन्ति । तेषु भेदत्रयं प्रदर्शितम् । शेषभेदाः सुधीभिः स्वबुद्ध्या प्रस्तार्य सूचनीया इति दिक् ॥ अथ द्वाविंशत्यक्षरप्रस्तारे हंसीछन्द: विज्जूमालापाएपाए तिथ दिअगण त वहुगुणजुत्ता अन्ते कण्णासुद्धा वण्णा भण फणिवर कइवर गुणजुत्ता । १. 'आईपाए (आदिपादे )' रवि ०.

Loading...

Page Navigation
1 ... 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256