Book Title: Prakrit Pingal Sutrani
Author(s): Lakshminath Bhatta, Sivdatta Pt
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 219
________________ २ परिच्छेदः] प्राकृतपिङ्गलसूत्रम् । २०३ [ति] । द्विजगणांश्चतुर्लघुकांश्चतुरश्चतुष्पदे(द्यां) फणिपतिः सही सत्यं भणति पठतीत्यर्थः। द्विजगणचतुष्टयपाठानन्तरं कमलगणो गुर्वन्तः सगणः करः पाणि: 'कमल हत्यम्' इत्यत्रैवोक्तत्वात्स देयः । हे सरसमानसे सुमुखि, एवमुक्तप्रकारेण गणसंनिवेशो यत्र तद्धवलनामक छन्दः कही कथ्यते इत्यर्थः ॥ भूषणे तु प्रकारान्तरेणोक्तम्-'द्विजवरगणत्रि(?)तयमिह हि नगणयुगलकं विमलवलयमपि च कलय सकलजनसुखम् । फणिपतिवरभणितममलधवलमिह हितं विमलकविकुलहृदि वलितमिति भुवि वलितम् ॥' धवलामुदाहरति-जहा (यथा) तरुण तरणि तवइ धरणि पवण वह खरा __ लग णहि जल वड मरुथल जणजिवणहरा । दिसइ चलइ हिअअ डुलइ हम इकलि वहू घर णहि पिअ सुणहि पहिअ मण इछल कहूँ ॥२४५॥ [तरुणस्तरणिस्तपति धरणी पवनो वहति खरो लग्नं नहि जलं महामरुस्थलं जनजीवनहरम् । दिशश्चलन्ति हृदयं कम्पतेऽहमेकला वधू गृहे नहि प्रियः शृणु पथिक मन इच्छति कुत्र ॥] काचित्स्वयंदूती पथिकासक्ता तमाह-तरुणस्तरणिः सूर्यः तपति । धरणी प्रचण्डमातण्डकरप्रकरसंपर्कात्क्षितितलमतितप्तमित्यर्थः। किंच-पवनः खरो वहति । निकटे जलं च नास्ति । महामरुस्थलं जनजीवनहरमिदं विद्यते मारवं वर्मेति शेषः । दिशो हरितोऽपि तिग्ममरीचिनिचयसंयोगाच्चलन्तीव । अतो हृदयं कम्पते। अहमेकला वधूः, गृहे च प्रियः स्वामी नास्ति । हे पथिक, शृणु तव मनः कुत्रापीच्छति । स्थातुमिति शेषः । निवासं कर्तु चेन्मनस्तव विद्यते तदात्रैवास्स्वेति वाक्येन व्यज्यते इति ॥ यथा वाणीभूषणे]'उपगत इह सुरभिसमय इति सुमुखि वदे निधुवनमधि सह पिव मधु जहि रुषमपदे । कमलनयनमनुसर सखि तव रभसपरं प्रियतमगृहगमनमुचितमनुचितमपरम् ॥' उद्दवणिका यथा-m, m, un, m, us, १९x४७६ ॥ धवला निवृत्ता ॥ अथ शंभुच्छन्दःअव लोआणं भण ए छन्दं मणमज्झे सुक्खं संवुत्तं सुपिअं अंग्गे धरि हत्थो दिज्जसु कुन्तीपुत्तं संजुत्तम् । गण अग्गे दिज्जसु एवं वे सर अत्ते सत्ता हारा जं इअ वत्नीसा पअला मत्ता सुणु छन्दो संभूणामेअम् ।।२४६॥ १. 'विसइ वोलइ (वसतिर्व्याकुला)' रवि०. २. 'अन्ते' रवि०. -

Loading...

Page Navigation
1 ... 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256