Book Title: Prakrit Pingal Sutrani
Author(s): Lakshminath Bhatta, Sivdatta Pt
Publisher: Tukaram Javaji
View full book text
________________
२ परिच्छेदः ]
प्राकृतपिङ्गलसूत्रम् ।
२०५
नलीलावामनदैत्यश्रेणीनिष्कन्दी ॥' उद्यवणिका यथा ॥s, ss, ॥s, ss, us, s, SSS, SS, १९×४=७६ ॥ शंभुर्निवृत्तः ॥ अथैकोनविंशत्यक्षरप्रस्तार एव कानिचिद्वृत्तानि ग्रन्थान्तरादाकृष्य लिख्यन्तेतत्र प्रथमं मेघविस्फूर्जिताछन्द:
-
रसवै सौररगुरुयुतौ मेघविस्फूर्जिता स्यात् ॥ २४८ ॥ यत्र रसैः षड्डिः, ऋतुभिः षड्डिरेव, अश्वैः सप्तभिः कृतविरतिः, अथ च यमौ यगण, मगणौ, अथ च सौ नगणसगणौ, रगणद्वयगुरुयुतौ चेद्भवतस्तदा मेघविस्फूर्जिताछन्दः स्यादिति ॥
यथा
'कदम्बा मोदाढ्या विपिनपवनाः केकिनः कान्तकेका विनिद्राः कन्दल्यो दिशि दिशि मुदा दर्दुरा दृप्तनादाः । निशानृत्य द्विद्युत्प्रसरविलसन्मेघविस्फूर्जिताश्चे
त्प्रियः स्वाधीनोऽसौ दनुजदलनो राज्यमस्मान्न किंचित् ॥'
यथा वा
‘उदञ्चत्कावेरीलहरिषु परिष्वङ्गरङ्गे लुठन्तः
कुहूकण्ठी कण्ठीरवरवलवत्रासितप्रोषितेभाः ।
अमी चैत्रे मैत्रावरुणितरुणीकेलिकङ्केल्लिमल्ली
चलदल्ली हल्लीसकसुरभयश्चण्डि चञ्चन्ति वाताः ॥' इति राक्षसक विकृतदक्षिणानिलवर्णनम् ॥ उट्टवणिका यथा - Iss, sss, ill, us,
SIS, SIS, S, १९४४ = ७६ ॥ मेघविस्फूर्जिता निवृत्ता ॥
अथ छायाछन्दः -
भवेत्सैव च्छाया तयुगलयुता स्याद्वादशान्ते यदि ॥ २४९ ॥ भोः शिष्याः, सैव मेघविस्फूर्जितैव यदि द्वादशान्ते यतिद्वयान्ते सगणान्त इति यावत् । तत्र रेफयुगस्थाने तयुगलयुता तगणद्वयसहिता । आदेशन्यायेनेति भावः । विरतिश्च सैव । शेषं समानम् । यत्र भवेत्तच्छायानामकं छन्दो भवतीति ॥
यथा
'अभीष्टं जुष्टो यो वितरति लसदोश्चारुशाखोज्ज्वलः स्फुरन्नानारत्नः स्तबकिततनुश्चित्रांशुकालम्बितः । न यस्याङ्गेश्छायामुपगतवतां संसारतीत्रातपस्तनोति प्रोत्तापं जयति जगतां कंसारिकल्पद्रुमः ॥'

Page Navigation
1 ... 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256