Book Title: Prakrit Pingal Sutrani
Author(s): Lakshminath Bhatta, Sivdatta Pt
Publisher: Tukaram Javaji
View full book text
________________
२०४
काव्यमाला |
[इदानीं लोकानां भणैतच्छन्दो मनोमध्ये सुखं संवृत्तं सुप्रियाग्रे धारय हस्तं देहि कुन्तीपुत्रसंयुक्तम् ।
गणमग्रे देह्येवं द्वौ शरावन्ते सप्त हारा यत्र इति द्वात्रिंशत्पदे मात्राः शृणु छन्द: शंभुनामैकम् ॥]
हे सुपिअं सुतरां प्रिय शिष्य, अव इदानीं लोकानां ए एतच्छन्दो भण येन शंभुच्छ. न्दसा मनोमध्ये सुखं संवृत्तम् । तत्र अग्रे प्रथमं हस्तं सगणं देहि । कीदृशं हस्तम् । कु न्तीपुत्रसंयुक्तं गुरुद्वयसहितमित्यर्थः । ततोऽप्रे एवं गणं देहि सगणं गुरुद्वययुक्तं पुनर्देही - त्यर्थः । ततश्च द्वौ शरौ लघुद्वयं देहि । अन्ते सत्ता सप्त हारा गुरवो देया इत्यर्थः । एवं च पदे एकोनविंशत्यक्षराणि द्वात्रिंशन्मात्राश्च । त्रयोदशगुरूणां द्विगुणाभिप्रायेण षड्विंशतिः, रससंख्या लघवश्च । संभूयेति प्रकारेण द्वात्रिंशन्मात्राः पतिता यत्र तदिदं शंभुनामकं छन्दो भवतीति विद्धि ॥ वाणीभूषणे तु प्रकारान्तरेणोक्तम् — 'कुरु पाणि कंकणयुग्मालंकृतमभ्रे रत्नं हारं च चरणं सन्नूपुरसंयुक्तं कुरु कर्णे भ्राजत्ताटङ्कम् । रसनामायोजय मरद्वयमेवं शंसद्वृत्तान्तं भुवि कान्तं गौरि चिरं संभावय तन्नागाधीशेनोक्तम् ॥' शंभुमुदाहरति - जहा (यथा ) -
सिविट्ठी किज्जिय जीआ लिज्जिय वाला बुड्ढा कम्पन्ता वह पश्चा वाअह लग्गो का अह सव्वा दीसा झम्पन्ता | जब जज्झा रोसइ चिन्ता हो सह अग्गी पिट्ठी थक्कीआ करपा संभरि लिज्जे भित्तरि अप्पाअप्पी लुक्की आ॥२४७॥ [ शीतवृष्टिः कृता जीवो गृहीतो बाला वृद्धाः कम्पन्ते
वाति पश्चाद्वातो लगति कायेषु सर्वा दिश आच्छादयन् । यदा झञ्झा रुष्यति चिन्ता भवति सदाग्निः पृष्ठे तिष्ठति करपादं संभृत्य गृह्यतेऽन्तरन्योन्यं निलीयते ॥ ]
कविः शीतभरं वर्णयति - अनेन शीतकालेन शीतवृष्टिस्तथा कृता यथा जीवो गृहीतः । बाला वृद्धाश्च कम्पन्ते । किंच वाति पाश्चात्यो वातः । सर्वा दिश आच्छादयन्कायेषु लगति । यद्वा - का अ मिहिकार्थे देशी । तत्र सर्वा दिशः आच्छादयन्ती मिहिका लगति । यदा - जाड्यं (झञ्झावातः सवृष्टिकः) रुष्यति प्रबलं भवति तदा चिन्ता भवति सदा अग्निः पृष्ठे चेत्तिष्ठति । अथ च करपादं संभृत्य गृह्यते अन्तरन्योन्यं निली - यते ॥ यथा वा[णीभूषणे ] – 'जय मायामानवमूर्ते दानववंशध्वंसव्यापारी बलमाद्यद्रावणहत्याकारण लङ्कालक्ष्मीसंहारी । कृतकंसध्वंसनकर्मा गोगोपीगोपानन्दी वलिलक्ष्मीनाश

Page Navigation
1 ... 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256