SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ २०४ काव्यमाला | [इदानीं लोकानां भणैतच्छन्दो मनोमध्ये सुखं संवृत्तं सुप्रियाग्रे धारय हस्तं देहि कुन्तीपुत्रसंयुक्तम् । गणमग्रे देह्येवं द्वौ शरावन्ते सप्त हारा यत्र इति द्वात्रिंशत्पदे मात्राः शृणु छन्द: शंभुनामैकम् ॥] हे सुपिअं सुतरां प्रिय शिष्य, अव इदानीं लोकानां ए एतच्छन्दो भण येन शंभुच्छ. न्दसा मनोमध्ये सुखं संवृत्तम् । तत्र अग्रे प्रथमं हस्तं सगणं देहि । कीदृशं हस्तम् । कु न्तीपुत्रसंयुक्तं गुरुद्वयसहितमित्यर्थः । ततोऽप्रे एवं गणं देहि सगणं गुरुद्वययुक्तं पुनर्देही - त्यर्थः । ततश्च द्वौ शरौ लघुद्वयं देहि । अन्ते सत्ता सप्त हारा गुरवो देया इत्यर्थः । एवं च पदे एकोनविंशत्यक्षराणि द्वात्रिंशन्मात्राश्च । त्रयोदशगुरूणां द्विगुणाभिप्रायेण षड्विंशतिः, रससंख्या लघवश्च । संभूयेति प्रकारेण द्वात्रिंशन्मात्राः पतिता यत्र तदिदं शंभुनामकं छन्दो भवतीति विद्धि ॥ वाणीभूषणे तु प्रकारान्तरेणोक्तम् — 'कुरु पाणि कंकणयुग्मालंकृतमभ्रे रत्नं हारं च चरणं सन्नूपुरसंयुक्तं कुरु कर्णे भ्राजत्ताटङ्कम् । रसनामायोजय मरद्वयमेवं शंसद्वृत्तान्तं भुवि कान्तं गौरि चिरं संभावय तन्नागाधीशेनोक्तम् ॥' शंभुमुदाहरति - जहा (यथा ) - सिविट्ठी किज्जिय जीआ लिज्जिय वाला बुड्ढा कम्पन्ता वह पश्चा वाअह लग्गो का अह सव्वा दीसा झम्पन्ता | जब जज्झा रोसइ चिन्ता हो सह अग्गी पिट्ठी थक्कीआ करपा संभरि लिज्जे भित्तरि अप्पाअप्पी लुक्की आ॥२४७॥ [ शीतवृष्टिः कृता जीवो गृहीतो बाला वृद्धाः कम्पन्ते वाति पश्चाद्वातो लगति कायेषु सर्वा दिश आच्छादयन् । यदा झञ्झा रुष्यति चिन्ता भवति सदाग्निः पृष्ठे तिष्ठति करपादं संभृत्य गृह्यतेऽन्तरन्योन्यं निलीयते ॥ ] कविः शीतभरं वर्णयति - अनेन शीतकालेन शीतवृष्टिस्तथा कृता यथा जीवो गृहीतः । बाला वृद्धाश्च कम्पन्ते । किंच वाति पाश्चात्यो वातः । सर्वा दिश आच्छादयन्कायेषु लगति । यद्वा - का अ मिहिकार्थे देशी । तत्र सर्वा दिशः आच्छादयन्ती मिहिका लगति । यदा - जाड्यं (झञ्झावातः सवृष्टिकः) रुष्यति प्रबलं भवति तदा चिन्ता भवति सदा अग्निः पृष्ठे चेत्तिष्ठति । अथ च करपादं संभृत्य गृह्यते अन्तरन्योन्यं निली - यते ॥ यथा वा[णीभूषणे ] – 'जय मायामानवमूर्ते दानववंशध्वंसव्यापारी बलमाद्यद्रावणहत्याकारण लङ्कालक्ष्मीसंहारी । कृतकंसध्वंसनकर्मा गोगोपीगोपानन्दी वलिलक्ष्मीनाश
SR No.023478
Book TitlePrakrit Pingal Sutrani
Original Sutra AuthorN/A
AuthorLakshminath Bhatta, Sivdatta Pt
PublisherTukaram Javaji
Publication Year1894
Total Pages256
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy