________________
२ परिच्छेदः]
प्राकृतपिङ्गलसूत्रम् ।
२०३
[ति] । द्विजगणांश्चतुर्लघुकांश्चतुरश्चतुष्पदे(द्यां) फणिपतिः सही सत्यं भणति पठतीत्यर्थः। द्विजगणचतुष्टयपाठानन्तरं कमलगणो गुर्वन्तः सगणः करः पाणि: 'कमल हत्यम्' इत्यत्रैवोक्तत्वात्स देयः । हे सरसमानसे सुमुखि, एवमुक्तप्रकारेण गणसंनिवेशो यत्र तद्धवलनामक छन्दः कही कथ्यते इत्यर्थः ॥ भूषणे तु प्रकारान्तरेणोक्तम्-'द्विजवरगणत्रि(?)तयमिह हि नगणयुगलकं विमलवलयमपि च कलय सकलजनसुखम् । फणिपतिवरभणितममलधवलमिह हितं विमलकविकुलहृदि वलितमिति भुवि वलितम् ॥' धवलामुदाहरति-जहा (यथा)
तरुण तरणि तवइ धरणि पवण वह खरा __ लग णहि जल वड मरुथल जणजिवणहरा । दिसइ चलइ हिअअ डुलइ हम इकलि वहू
घर णहि पिअ सुणहि पहिअ मण इछल कहूँ ॥२४५॥ [तरुणस्तरणिस्तपति धरणी पवनो वहति खरो
लग्नं नहि जलं महामरुस्थलं जनजीवनहरम् । दिशश्चलन्ति हृदयं कम्पतेऽहमेकला वधू
गृहे नहि प्रियः शृणु पथिक मन इच्छति कुत्र ॥] काचित्स्वयंदूती पथिकासक्ता तमाह-तरुणस्तरणिः सूर्यः तपति । धरणी प्रचण्डमातण्डकरप्रकरसंपर्कात्क्षितितलमतितप्तमित्यर्थः। किंच-पवनः खरो वहति । निकटे जलं च नास्ति । महामरुस्थलं जनजीवनहरमिदं विद्यते मारवं वर्मेति शेषः । दिशो हरितोऽपि तिग्ममरीचिनिचयसंयोगाच्चलन्तीव । अतो हृदयं कम्पते। अहमेकला वधूः, गृहे च प्रियः स्वामी नास्ति । हे पथिक, शृणु तव मनः कुत्रापीच्छति । स्थातुमिति शेषः । निवासं कर्तु चेन्मनस्तव विद्यते तदात्रैवास्स्वेति वाक्येन व्यज्यते इति ॥ यथा वाणीभूषणे]'उपगत इह सुरभिसमय इति सुमुखि वदे निधुवनमधि सह पिव मधु जहि रुषमपदे । कमलनयनमनुसर सखि तव रभसपरं प्रियतमगृहगमनमुचितमनुचितमपरम् ॥' उद्दवणिका यथा-m, m, un, m, us, १९x४७६ ॥ धवला निवृत्ता ॥
अथ शंभुच्छन्दःअव लोआणं भण ए छन्दं मणमज्झे सुक्खं संवुत्तं
सुपिअं अंग्गे धरि हत्थो दिज्जसु कुन्तीपुत्तं संजुत्तम् । गण अग्गे दिज्जसु एवं वे सर अत्ते सत्ता हारा जं
इअ वत्नीसा पअला मत्ता सुणु छन्दो संभूणामेअम् ।।२४६॥ १. 'विसइ वोलइ (वसतिर्व्याकुला)' रवि०. २. 'अन्ते' रवि०.
-