________________
२०२
काव्यमाला।
रौति पिकः समयोऽतिरमणीयः किं तव स्थिरं हृदयं
गमितदिनानि न पुनर्मिलन्ति सखि प्रियो निकटे न (?) ॥] काचिदतिनिसृष्टार्था दूती कामपि प्रोषितपतिकामाह-हे सखि, अमृतकरस्य पीयूषभानोः किरणान्धारयति । ओषधीनाथत्वात्तस्य । तादृशं फुल्लबहुकुसुमं नानाविधसुरभिप्रसून वनमिदं जातमित्युद्दीपनम् । किंच-कामोऽप्यवसरप्राप्त्या कुपितो भूत्वा प्राकृते पूर्वनिपातानियमाद्वहटु(?)भाषाकृतयमकानुरोधाद्वा विन्यासः । वस्तुतस्तु मदनोऽतिरोषणो भूत्वा शरान्सुलभकुसुमत्वात्कौसुमत्वात्कौसुमानेव बाणानिजे धनुषि स्थापयित्वा धरइ धारयति । अर्थाद्धनुस्तादृशमायोजितकाण्डमण्डलीभूतकोदण्डं निजबाहुदण्डेन धृतवानिति भावः । अपि च पिकोऽपि रखइ रौति पञ्चमं कूजतीत्यर्थः । अतोऽयं समयो णिक परमरमणीय इत्यर्थः । अतश्च हे सखि, तवापि हृदयं किं स्थिरम् । अपि तु न स्थिरमिति काका । गमितानि दिनानि न पुनर्मिलन्ति । किं च सखि, प्रियो भर्ता निकटे नास्त्यतः परमं सुखमिति भावः । अत एवोक्तमभियुक्तेन-'मेघच्छन्ने दिवसे दुःसंचारासु नगरवीथीषु । भर्तुविदेशगमने परमसुखं जघनचपलायाः ॥' इति ॥ यथा वा[णीभूषणे] –'अनुपहतकुसुमरसतुल्यमिदमधरदलममृतमयवचनमिदमालि विफलयसि चल । यदपि यदुरमणपदमीश मुनिहृदि लुठति तदपि तव रतिवलितमेत्य वनतटमटति ॥' उवणिका यथा-m, m, us, l, m, १९४४-७६ ॥ इति चन्द्रमाला निवृत्ता॥ अथ धवलाच्छन्दःकरइ वैसु सुणि जुवइ विमलमइ महिअले
ठइअ ठइ रैमणि सरसगण पअपअ पले । दिअगण चउ चउपअहिं भण फणिवइ सही
कमलगण सरसमण सुमुहि धवलअ कही ॥ २४४ ॥ [करोति वासुकिः शृणु युवति विमलमतिर्महीतले ... स्थापयित्वा'""रमणि सरसगणान्पदेपदे पतितान् । द्विजगणांश्चतुरश्चतुष्पद्यां भणति फणिपतिः सत्यं ___ कमलगणः सरसमानसं सुमुखि धवलकं कथ्यते ॥] हे युवति, विमलमतिर्वासुकिः पिङ्गलो महीतले करोति धवला धवलाख्यं वृत्तमिति । तत्त्वं शृणु यत्रादौ हे रमणि, स्थापयित्वा सरसगणान् पदे पदे पतितांस्तानाह-दिअइ
१. 'प्रियनिकटं याहि' रवि०. २. 'रसु (रसं)' रवि०. ३. 'विमलमते' रवि०. ४. 'रमणगिरि (रमणगिरे) रवि०. ५. 'पअतले (पादतले) रवि०. ६. 'मही (मनस्वी)' रवि०. ७. 'धवलुगणसरिसमण ससिवक्रणि धरणेही (?)' रवि०.