________________
. २ परिच्छेदः] प्राकृतपिङ्गलसूत्रम् ।
- २०१ तेन योगीश्वरेण कौलिकवरेण भैरवानन्देनानीता दक्षिणापथस्थवैदर्भनगराड्यानवर्त्मना समाकृष्टेत्यर्थः ॥ यथा वा-'गोविन्दं प्रणमोत्तमाङ्ग रसने ते(तं) घोषयाहनिशं पाणी पूजय तं मनः स्मर. पदे तस्यालयं गच्छतम् । एवं चेत्कुरुथाखिलं मम हितं शीर्षादयस्तद्रुवं न प्रेक्षे भवतां कृते भवमहाशार्दूलविक्रीडितम् ॥' उद्दवणिका यथा-sss, ॥, s, ।, s, m, sss, I, s, s, ।, S, १९४४७६॥ शार्दूलविक्रीडितं निवृत्तम् ॥ अथ चन्द्रमालाच्छन्दःठइवि दिअवरजुअल मज्झ करअल करहि
पुण वि दिअवरजुअल मज्झ करअल करहि । सरसगण विमल जहि सुण्णि ठवइ मनगइ
विमलमइ उरअवइ चन्दमल कहइ सोइ ॥ २४२ ॥ स्थापयित्वा द्विजवरयुगलं मध्ये करतलं कुरु
पुनरपि द्विजवरयुगलं मध्ये करतलं कुरु । सरसगणान्विमलान्यत्र श्रुत्वा स्थाप्यते मनोगति
विमलमतिरुरगपतिश्चन्द्रमालां कथयति ताम् ॥] हे सुन्दरि, प्रथमं स्थापयित्वा द्विजवरयुगलं चतुर्लघुकगणयुगं मध्ये करतलं सगणं कुरु पुनरपि द्विजवरयुगलम् । एवं कृते मध्यतः करतलं कुरु सरसान्गणान्विमलानतिविशदान् सुण्णि श्रुत्वा मनोगतिःस्थाप्यते निश्चलीक्रियते यत्र तां विमलमतिरुरगपतिः पिङ्गलश्चन्द्रमालामिति कथयति ॥ भूषणेऽप्युक्तम् - 'द्विजवरगणयुगमुपधाय परिकलय करमथ नगणयुगलमिह गन्धयुगमनुविहर। फणिनृपतिभणितमिति चन्द्रमिदमिति शृणुत सकलकविकुलहृदयमोदकरमवत नुत ॥' चन्द्रमालामुदाहरति-जहा (यथा)अमिअकरकिरणधर फुल्लबहुकुसुम वणु
कुविअ भइ सर ठवइ काम णिअ धरइ धणु । रवइ पिक समअ णिक किंत तुअ थिर हियलु
गमिअदिण ण पुण मिलणाहि सहि पिभ णिअलु॥२४३॥ [अमृतकरकिरणधरं फुल्लबहुकुसुमं वनं(मबाणान्) .
कुपितो भूत्वा शरान्स्थापयति कामो निजं धरति धनुः । १. 'कन्त तु अधिरहिअलो (कान्तस्त्वस्थिरहृदयः)' रवि०.
२६