________________
,
२००
काव्यमाला |
तिण्णे दिण्णसु गन्ध चामर तहा गन्धा अ वे चामरं रेहन्ता फैणिवण्ण अन्त करणे सद्दूलसट्टा मुणे ॥ २४० ॥ [प्रस्तारे यत्रत्रयश्चामरवरा दृश्यन्ते वर्णोज्ज्वला तदनन्तरं लघुद्वयं चामरस्तथोत्तिष्ठतो गन्धगुरू । त्रीन्दत्स्व गन्धांश्चामरांस्तथा गन्धश्च द्वौ चामरौ रेखा फणिवर्णोऽन्ते करणीयः शार्दूलसाटकं जानीहि ॥]
हे मुग्धे, यत्र प्रस्तारे क्रियमाणे प्रथमं पूर्वोक्तरीत्यैव त्रयश्चामरवरा वर्णोज्ज्वलाः श्वेतवर्णाश्चामरपक्षे, गुरुपक्षे – वर्णैरक्षरैरुज्ज्वला मनोहरा गुरवस्त्रयो दृश्यन्ते । तच्चेअं तदनन्तरं मगणानन्तरमित्यर्थः । लहुविण्णि लघुद्वयम् तथा चामर एको गुरुः, तेन सगणो भवतीत्यर्थः । तत उत्तिष्ठतो गन्धुग्गुरे लघुगुरू तदनन्तरं तिष्णे दिण्णसु गन्धत्रीन् गन्धांल्लघून्देहीत्यर्थः । ततः चामर तहा तथा त्रीन् गुरूनपि देहीति ततो गन्धश्च लघुरपि देय इत्यर्थः । ततो वे चामरं चामरद्वयं गुरुद्वयं रेहन्ता रेखान्तं लध्वन्तं देहीत्यर्थः । एवमष्टादश वर्णाः तस्यान्ते फणिवण्ण करणे गुरुर्वर्णः करणीयः । एवं यत्र प्रस्तारः, साटकं मुणे जानीहीत्यर्थः ॥
तच्छार्दूल
जहा (यथा ) -
जं धोअञ्जण सोणलोअणजुअं लैग्गालअग्गं मुहं हत्थालम्बिदकेसपल्लवचर घोलन्ति जं विन्दुणो । जं एकं सिचअञ्चलं णिवसिदं तं द्वाणकेलिट्ठिदा आणीदा इयमब्भुदेकजणणी जोईसरेणामुणा || २४१ ॥ [यस्या धौताञ्जनशोणलोचनयुगं लग्नाकानं मुखं
हस्तालम्बित केशपल्लवचये घूर्णन्ते यस्या बिन्दवः | यदैकं सिचयाञ्चलं निवसितं तदैव स्नानकेलिस्थिता आनीतेयमदुतैकजननी योगीश्वरेणामुना ||]
कर्पूरमञ्जरीसाटकस्थं भैरवानन्दसमाकृष्टकर्पूरमञ्जरीवर्णनपरं विदूषकं प्रति राज्ञो वचनमिदम् — यस्या धौताञ्जनत्वाच्छोणमारक्तं कोकनदानुकारि लोचनयुगम्, अथ च - यस्या मुखं लग्नान्यलकाग्राणि यत्र तादृशम्, किं च - हस्तालम्बित केशपल्लवचये यस्या बिन्दवो घूर्णन्ते । अपि च — दैवैकं सिचयाञ्चलं निवसितं परिधृतमासीत् तं तथै ( है ) वार्द्रभावाल्लग्नचेलाङ्गयष्टिः स्नानकेलिस्थिता जलक्रीडापरायणा अद्भुतानामाश्चर्यरसानामेका जननी सकललोक विस्मयभूमिरियं कुन्तलाधिपकन्यका कर्पूरमञ्जरी अमुना प्रत्यक्षस्थि
१. 'अप (ध्वजपट)' रवि ० . २. 'लम्बालअग्गं (लम्बालकामं ) ' रवि ०.