________________
२ परिच्छेदः] प्राकृतपिङ्गलसूत्रम् ।
१९९ मात्राणां यत्र निष्पन्ना द्वात्रिंशच्च लघवो विद्यन्त एव, संभूयैक(व)विंशत्युत्तरशतमात्रात्मकम् अर्क(१२)मुनि(७)विश्राममिदं शार्दूलविक्रीडितमिति साटकं पिङ्गलकविजल्पति तत् मुणो जानीत इत्यर्थः ॥ अथ चैकस्मिश्चरणे एकादशगुरूणां द्विगुणाभिप्रायेण द्वाविंशतिः कलाः, लघवश्चाष्टौ, इति संभूय त्रिंशत्कलाः, तच्चतुष्केणापि प्रोक्तैव कलापिण्डसंख्या भवतीति यथा-३०+३०+३०+३०=१२० ॥ तथा च छन्दोमार्याम्'अर्का श्वैर्यदि मः सजौ सततगाः शार्दूलविक्रीडितम्' इत्युक्तम् ॥ वाणीभूषणे तु प्रकारान्तरेणोक्तम्-'कर्णः कुण्डलसंगतः करतलं चामीकरणान्वितं पादान्तो रवनपुरेण कलितो हारौ प्रसूनोज्ज्वलौ । गुर्वानन्दयुतो गुरुर्यदि भवेत्तनूनविंशाक्षरं नागाधीश्वरपिं. इलेन भणितं शार्दूलविक्रीडितम् ॥' शार्दूलसाटकमुदाहरति-जहा (यथा)
जे लङ्कागिरिमेहलाहि खलिआ संभोअखिण्णोरई___फारुप्फुल्लफणावलीकवलणे पत्ता दरिहत्तणम् । ते इण्हि मलआणिला विरहिणीणीसाससंपकिणो
जादा झत्ति सिसुत्तणे वि वहला तारुण्णपुण्णा विआ॥२३९॥ [ये लङ्कागिरिमेखलातः स्खलिताः संभोगखिन्नोरगी___स्फारोत्फुल्लफणावलीकवलनेन प्राप्ता दरिद्रत्वम् । त इदानीं मलयानिला विरहिणीनिःश्वाससंपर्किणो
जाता झटिति शिशुत्वेऽपि बहलास्तारुण्यपूर्णायिठाः (इव) ॥] कपरमञ्जरीसाटके देवीनियुक्ता विचक्षणा राजानं श्रावयन्ती वसन्तवर्णनानन्तरं दक्षिणा निलमुपवर्णयति-ये दक्षिणानिलाः प्रथमं लङ्कागिरिमेखलातत्रिकूटाचलकटकात् स्खलिताः तदनन्तरं संभोगेन निधुवनेन खिन्नानामुरगीणां स्फारोत्फुल्लफणावलीकवलनेन पानेन दरिद्रत्वं मन्दत्वं प्राप्ताः, त एवेदानीं मधुसमये मलयानिलाः विरहिणीनां निःश्वासैः सह संपकिणः सन्तः शिशुत्वे सति तारुण्यपूर्णा इव झटिति बहला जाताः ॥ उट्टवणिका यथा-sss, us, is, us, ssi,ssI,S, १९४४-७६॥ यथा वा[णीभूषणे]'सौमित्रे किमु मृग्यते प्रतिलताकुजं कुरङ्गेक्षणा हन्तैतद्विपिने मनागपि न वा नेत्रातिथिमैथिली । एणी निस्त्रपमीक्षते मधुकरश्रेणी समुज्जृम्भते निःशङ्ख चमरी चरत्यपि निरा. तकं पिकी गायति ॥'
अथ प्रकारान्तरेण शार्दूललक्षणमेव लक्षयतिपत्थारे त(ज)ह तिण्णि चामरवरं दीसन्ति वण्णुज्जलं
तच्चेअं लहुविण्णि चामर तहा उट्टेअ गन्धुग्गुरे ।