SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ २ परिच्छेदः ] प्राकृतपिङ्गलसूत्रम् । २०५ नलीलावामनदैत्यश्रेणीनिष्कन्दी ॥' उद्यवणिका यथा ॥s, ss, ॥s, ss, us, s, SSS, SS, १९×४=७६ ॥ शंभुर्निवृत्तः ॥ अथैकोनविंशत्यक्षरप्रस्तार एव कानिचिद्वृत्तानि ग्रन्थान्तरादाकृष्य लिख्यन्तेतत्र प्रथमं मेघविस्फूर्जिताछन्द: - रसवै सौररगुरुयुतौ मेघविस्फूर्जिता स्यात् ॥ २४८ ॥ यत्र रसैः षड्डिः, ऋतुभिः षड्डिरेव, अश्वैः सप्तभिः कृतविरतिः, अथ च यमौ यगण, मगणौ, अथ च सौ नगणसगणौ, रगणद्वयगुरुयुतौ चेद्भवतस्तदा मेघविस्फूर्जिताछन्दः स्यादिति ॥ यथा 'कदम्बा मोदाढ्या विपिनपवनाः केकिनः कान्तकेका विनिद्राः कन्दल्यो दिशि दिशि मुदा दर्दुरा दृप्तनादाः । निशानृत्य द्विद्युत्प्रसरविलसन्मेघविस्फूर्जिताश्चे त्प्रियः स्वाधीनोऽसौ दनुजदलनो राज्यमस्मान्न किंचित् ॥' यथा वा ‘उदञ्चत्कावेरीलहरिषु परिष्वङ्गरङ्गे लुठन्तः कुहूकण्ठी कण्ठीरवरवलवत्रासितप्रोषितेभाः । अमी चैत्रे मैत्रावरुणितरुणीकेलिकङ्केल्लिमल्ली चलदल्ली हल्लीसकसुरभयश्चण्डि चञ्चन्ति वाताः ॥' इति राक्षसक विकृतदक्षिणानिलवर्णनम् ॥ उट्टवणिका यथा - Iss, sss, ill, us, SIS, SIS, S, १९४४ = ७६ ॥ मेघविस्फूर्जिता निवृत्ता ॥ अथ छायाछन्दः - भवेत्सैव च्छाया तयुगलयुता स्याद्वादशान्ते यदि ॥ २४९ ॥ भोः शिष्याः, सैव मेघविस्फूर्जितैव यदि द्वादशान्ते यतिद्वयान्ते सगणान्त इति यावत् । तत्र रेफयुगस्थाने तयुगलयुता तगणद्वयसहिता । आदेशन्यायेनेति भावः । विरतिश्च सैव । शेषं समानम् । यत्र भवेत्तच्छायानामकं छन्दो भवतीति ॥ यथा 'अभीष्टं जुष्टो यो वितरति लसदोश्चारुशाखोज्ज्वलः स्फुरन्नानारत्नः स्तबकिततनुश्चित्रांशुकालम्बितः । न यस्याङ्गेश्छायामुपगतवतां संसारतीत्रातपस्तनोति प्रोत्तापं जयति जगतां कंसारिकल्पद्रुमः ॥'
SR No.023478
Book TitlePrakrit Pingal Sutrani
Original Sutra AuthorN/A
AuthorLakshminath Bhatta, Sivdatta Pt
PublisherTukaram Javaji
Publication Year1894
Total Pages256
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy