Book Title: Prakrit Pingal Sutrani
Author(s): Lakshminath Bhatta, Sivdatta Pt
Publisher: Tukaram Javaji
View full book text
________________
२०६
काव्यमाला।
उध्वणिका यथा-ss, sss, , us, ssI, ss, S, १९४४-७६ ॥ छाया निवृत्ता॥
अथ सुरसाछन्दः___ नौ नौ यो नो गुरुश्चेत्स्वरमुनिकरणैराह सुरसाम् ॥ २५० ॥
भोः शिष्याः, यत्र नौ मगणरगणौ, अथ च नौ भगणनगणौ भवतः, ततो यो यगणः, ततो नो नगणः, अनन्तरं गुरुश्चेत् । अथ च–स्वरैः सप्तभिः, मुनिभिः सप्तभिः, करणैः पश्चभिः कृतविश्रामां सुरसामाह नागराज इति शेषः ॥ यथा
'कामक्रीडासतृष्णो मधुसमयसमारम्भरभसा
त्कालिन्दीकूलकुञ्ज विहरणकुतुकाकृष्टहृदयः । गोविन्दो बल्लवीनामधररससुधां प्राप्य सुरसां
शङ्के पीयूषपानप्रभवकृतसुखं व्यस्मरदसौ ॥' उद्दवणिका यथा-sss, sis,su, I,Iss, u,s,१९४४ =७६॥ सुरसा निवृत्ता॥ अथ फुल्लदामच्छन्दः
मो गौ नौ तौ गौ शरहयतुरगैः फुल्लदाम प्रसिद्धम् ॥ २५१॥ भोः शिष्याः, यत्रादौ मो मगणः, ततो गौ गुरुद्वयम्, ततश्च नौ नगणद्वयम्, ततोऽपि तौ तगणौ भवतः, ततो गौ गुरुद्वयं भवति । किंच-शरहयतुरगैः पञ्चसप्तसप्तभिः पूर्वविपरीतैर्विरचितविरतिकं फुल्लदामनामकं प्रसिद्धं विख्यातं दत्तं भवतीति वित्त ॥ यथा'शश्वल्लोकानां प्रकटितकदनं ध्वस्तमालोक्य कंसं
हृष्यच्चेतोभिस्त्रिदिववसतिभिर्योमसंस्थैर्विमुक्तम् । मुग्धामोदेन स्थगितदशदिगाभोगमाहूतभृङ्गं
मौलौ दैत्यारे पतदनुपमं स्वस्तरोः फुल्लदाम ॥' उद्ववणिका यथा-sss, ss, ॥ ॥, ssi, ssi, ss, १९४४=७६॥ फुल्लदाम निवृत्तम् ॥
अत्रापि प्रस्तारगत्यैकोनविंशत्यक्षरस्य बाणलक्षं चतुर्विंशतिसहस्राण्यष्टाशीत्युत्तरं च शतद्वयं (५२४२८८) भेदाः । तेषु कियन्तो भेदा उक्ताः शेषभेदा विशेषशेमुषीकैराकराद्विचारेण वा प्रस्तार्य प्रस्तावनीया इति दिङ्गात्रमुपलक्षितमस्माभिरित्युपरम्यत इति ॥

Page Navigation
1 ... 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256