Book Title: Prakrit Pingal Sutrani
Author(s): Lakshminath Bhatta, Sivdatta Pt
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 224
________________ २०८ काव्यमाला। प्राकृते पूर्वनिपातानियमात् चारुकेतकीचम्पकचूतमअरीवञ्जुलानि पुष्पितानि । किंच-सवैदिक्षु किंशुककानने फुल्लनवपलाशवने पानेन तत्तन्मकरन्दास्वादनेन व्याकुला भ्रमरा यत्र दृश्यन्ते। अथ च यत्र गन्धबन्धुः सुगन्धप्रायकत्वात्सुरभिसोदरस्तादृशश्चासौ विशिष्टो बन्धः स्कन्धकविन्यासो यस्य । अत एव बन्धुर उच्चनीचो भूत्वा मन्दमन्दं समीरणो मलयानि. लो वहति । अतश्चैवंविधमदनमहोत्सवसदनरूपे समये तरुणीजनाः प्रियेण सह केलिको. तुकं निधुवनकौतुकं तस्य यो लासो विलासस्तल्लग्गिमनि तत्कान्तौ लग्ना यत्र तादृशोऽयं वसन्तसमयः प्राप्तः। तस्मात्त्वमपि यथासुखं विहरेति ॥ यथा वा[णीभूषणे] —'अलमीशपा. वकपाकशासनवारिजासनसेवया गमितं जनुर्जनकात्मजापतिरप्यसेव्यत नो मया । करुणा. पयोनिधिरेक एव सरोजदामविलोचनः स परं करिष्यति दुःखशेषमशेषदुर्गतिमोचनः ॥' यथा वा प्रन्थान्तरस्थमुदाहरणम्-'करतालचश्चलकङ्कणस्वनमिश्रणेन मनोरमा रमणाय वेणुनिनादलङ्गिमसंगमेन सुखावहा । वहलानुरागनिवासराससमुद्भवा भवरागिणं विदधौ हरिं खलु बल्लवीजनचारुचामरगीतिका ॥' 'अथ सालतालतमालवञ्जुलकोविदारमनोहरा-' इत्यादि शिको(?)काव्ये ॥ उद्ववणिका यथा-us, Ish, isi, su, sis, usis, २०४४८०॥ गीतिका निवृत्ता ॥ अथ गण्डकाच्छन्दःरग्गणा पलन्तआ पुणो णरेन्द कन्तआ सुछक्कएण हार एक दिज्जही सुसद्द पाअ किज्जही सुसकरण । गण्डआ गणेहु एहु वैङ्कसङ्घसङ्खले फणिन्द गाउ तीस मत्त पाअ पत्त हार तीअभागए सुसद्द आउ॥२५५।। [रंगणः पतति पुनर्नरेन्द्रः कान्तः सुषट्केन हारमेकं देहि सुशब्दं पादे कुरु स्वशक्त्या । गण्डकां गणयैतद्वक्रशङ्खशृङ्खलया फणीन्द्रो गायति त्रिंशन्मात्राः पादे प्राप्ता हारास्तृतीयभाग एकः सशब्द आगतः ॥] हे मुग्धे, यत्रादौ रगणो मध्यलघुर्गणः पतति, पुनर्नरेन्द्रो जगणः कान्तोऽतिसुन्दरः, ततः सुष्टु एवंभूतो(तेन) रगणादिजगणान्तेन षट्केन सह हारमेकं गुरुं देहि। तदनन्तरं सुतकरण स्वशक्त्या निजकवितासामथुन सुशब्दं लघु पादे कुरु। तदेतद्वक्रशङ्खशृङ्खलया गुरुलघुशृङ्खलाबन्धक्रमेण फणीन्द्रः पिङ्गलो गण्डकाभिधानमिति छन्दो गायति(णय)यत्र पादे गुरुदशकद्वैगुण्येन लघुदशकेन त्रिंशन्मात्राः पतिताः । अत्र च हारशब्दाभ्यां ए एकः तीअ. भाअ त्रिकलभागः आउ आगत इत्यर्थः । यदि च त्रिकलानां सामस्त्येन संख्या क्रियते तदा दशत्रिकलैरादिगुरुकैरेव गण्डका निष्पाद्यत इति भावः ॥ वाणीभूषणे तु प्रकारान्तरे १. 'मन्तही(मन्त्रयस्व) रवि०. २. 'वण्णसंखटं कणे(अतिसंकटमेतत्)' रवि०,

Loading...

Page Navigation
1 ... 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256