Book Title: Prakrit Pingal Sutrani
Author(s): Lakshminath Bhatta, Sivdatta Pt
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 215
________________ २ परिच्छेदः] प्राकृतपिङ्गलसूत्रम् । १९९ मात्राणां यत्र निष्पन्ना द्वात्रिंशच्च लघवो विद्यन्त एव, संभूयैक(व)विंशत्युत्तरशतमात्रात्मकम् अर्क(१२)मुनि(७)विश्राममिदं शार्दूलविक्रीडितमिति साटकं पिङ्गलकविजल्पति तत् मुणो जानीत इत्यर्थः ॥ अथ चैकस्मिश्चरणे एकादशगुरूणां द्विगुणाभिप्रायेण द्वाविंशतिः कलाः, लघवश्चाष्टौ, इति संभूय त्रिंशत्कलाः, तच्चतुष्केणापि प्रोक्तैव कलापिण्डसंख्या भवतीति यथा-३०+३०+३०+३०=१२० ॥ तथा च छन्दोमार्याम्'अर्का श्वैर्यदि मः सजौ सततगाः शार्दूलविक्रीडितम्' इत्युक्तम् ॥ वाणीभूषणे तु प्रकारान्तरेणोक्तम्-'कर्णः कुण्डलसंगतः करतलं चामीकरणान्वितं पादान्तो रवनपुरेण कलितो हारौ प्रसूनोज्ज्वलौ । गुर्वानन्दयुतो गुरुर्यदि भवेत्तनूनविंशाक्षरं नागाधीश्वरपिं. इलेन भणितं शार्दूलविक्रीडितम् ॥' शार्दूलसाटकमुदाहरति-जहा (यथा) जे लङ्कागिरिमेहलाहि खलिआ संभोअखिण्णोरई___फारुप्फुल्लफणावलीकवलणे पत्ता दरिहत्तणम् । ते इण्हि मलआणिला विरहिणीणीसाससंपकिणो जादा झत्ति सिसुत्तणे वि वहला तारुण्णपुण्णा विआ॥२३९॥ [ये लङ्कागिरिमेखलातः स्खलिताः संभोगखिन्नोरगी___स्फारोत्फुल्लफणावलीकवलनेन प्राप्ता दरिद्रत्वम् । त इदानीं मलयानिला विरहिणीनिःश्वाससंपर्किणो जाता झटिति शिशुत्वेऽपि बहलास्तारुण्यपूर्णायिठाः (इव) ॥] कपरमञ्जरीसाटके देवीनियुक्ता विचक्षणा राजानं श्रावयन्ती वसन्तवर्णनानन्तरं दक्षिणा निलमुपवर्णयति-ये दक्षिणानिलाः प्रथमं लङ्कागिरिमेखलातत्रिकूटाचलकटकात् स्खलिताः तदनन्तरं संभोगेन निधुवनेन खिन्नानामुरगीणां स्फारोत्फुल्लफणावलीकवलनेन पानेन दरिद्रत्वं मन्दत्वं प्राप्ताः, त एवेदानीं मधुसमये मलयानिलाः विरहिणीनां निःश्वासैः सह संपकिणः सन्तः शिशुत्वे सति तारुण्यपूर्णा इव झटिति बहला जाताः ॥ उट्टवणिका यथा-sss, us, is, us, ssi,ssI,S, १९४४-७६॥ यथा वा[णीभूषणे]'सौमित्रे किमु मृग्यते प्रतिलताकुजं कुरङ्गेक्षणा हन्तैतद्विपिने मनागपि न वा नेत्रातिथिमैथिली । एणी निस्त्रपमीक्षते मधुकरश्रेणी समुज्जृम्भते निःशङ्ख चमरी चरत्यपि निरा. तकं पिकी गायति ॥' अथ प्रकारान्तरेण शार्दूललक्षणमेव लक्षयतिपत्थारे त(ज)ह तिण्णि चामरवरं दीसन्ति वण्णुज्जलं तच्चेअं लहुविण्णि चामर तहा उट्टेअ गन्धुग्गुरे ।

Loading...

Page Navigation
1 ... 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256