Book Title: Prakrit Pingal Sutrani
Author(s): Lakshminath Bhatta, Sivdatta Pt
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 214
________________ १९८ काव्यमाला । अथ शार्दूलललितं छन्दः— मः सो जः सतसा दिनेशऋतुभिः शार्दूलललितम् ॥ २३७ ॥ भोः शिष्याः, यत्र प्रथमं मगणः, ततः सगणः, ततो जगणः, ततः सतसाः सगणत - गणसगणा भवन्ति । दिनेशैर्द्वादशभिः ऋतुभिः षभिश्च विरतिर्यत्र तच्छार्दूलललितं छन्दो भवतीति ॥ यथा कृत्वा कंसमृगे पराक्रमविधिं शार्दूलललितं यश्चक्रे क्षितिभारकारिषु सुरारातिष्वतिदरम् । संतोषं परमं च देवनिवहे त्रैलोक्यशरणं श्रेयो नः स तनोत्वपारमहिमा लक्ष्मीप्रियतमः ॥ उट्टवणिका यथा—ऽऽऽ, ॥S, ISI, ॥s, ss), ॥s, १८४४=७२ ॥ शार्दूलललितं निवृत्तम् ॥ अत्रापि प्रस्तारगत्याष्टादशाक्षरस्य लक्षद्वयं द्वाषष्टिसहस्राणि चतुश्चत्वारिंशदुत्तरं च शतं २६२१४४ भेदाः । तेषु कियन्तो भेदाः प्रोक्ताः । शेषभेदा विशालबुद्धिभिराकरात्स्वमत्या वा प्रस्तार्य स्वयमूहनीया इत्यलं पल्लवेन ॥ अथैकोनविंशत्यक्षरप्रस्तारे शार्दूलविक्रीडितं छन्दः— मोसो जो सत तो समन्तगुरवो एगूणविसावणा पिण्डोअं सउ वीस मत्त भणिअं अट्ठासि जोणी पुणो । जं छेत्तरि वण्णओ चउपओ बत्तीस रेहे मुणो चौआलीसह हार पिङ्गलकई सद्दूलसद्दा मुणो ॥ २३८ ॥ [मः सो जः सस्तस्तः समन्तगुरव एकोनविंशतिर्वर्णाः पिण्डौघः(?)शतं विंशतिर्मात्रा भणितेरष्टाशीतिर्योनिः पुनः । यत्र षट्सप्ततिर्वर्णाश्चतुः पद्यां द्वात्रिंशदेखाः पुनः चतुश्चत्वारिंशद्वारा पिङ्गलकविः शार्दूलसाटकं जानीत ॥] , भोः शिष्याः, यत्र प्रथमं मो मगणः, ततः सो सगणः, ततो जो जगणः, ततोऽपि सगण एव, अनन्तरं तगणः, ततः तो तगणः समन्तगुरवो सम्यगन्ते गुरुर्येषामेवं षङ्गणा यत्र । अत एवैकोनविंशतिर्वर्णाः पदे यत्र यत्र च चतुर्गुणितैकोनविंशतिवर्णाश्चतुःपदे षट्सप्ततिः पतन्ति । किं च पद एकादश गुरवः, अष्टौ लघवः, पदचतुष्टये चतुश्चत्वारिंशगुरवो द्वात्रिंशल्लघवः, एतस्य छन्दसः पदचतुष्टयस्य मात्रापिण्डसंख्या विंशत्युत्तरशतमात्रात्मिका भणिता । एतदुक्तं भवति – चतुश्चत्वारिंशद्गुरूणां द्विगुणाभिप्रायेणाष्टाशीति

Loading...

Page Navigation
1 ... 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256