________________
१९४
काव्यमाला।
[यनेन्द्रासनमेको गणः स भवति पादे पादे
दशाष्टवर्णाः सुखयन्ति दण्डाः स्थाने स्थाने । दश त्रिगुणिता यत्र सर्वा भवन्ति मात्राः सुपादे
फणीन्द्रो भणति क्रीडाचन्द्रछन्दो निबद्धं यत् ॥] भोः शिष्याः, यत्रेन्द्रासनमादिलघुः पञ्चकलो गणोऽर्थाद्यगणः स एवैकः पादे पादे भवति षडिर्यगणैः पाद इत्यर्थः । पादे चाष्टादश वर्णाः सुखयन्ति । दण्डा लघवः स्थाने स्थाने भवन्ति । यत्र मात्राश्च दश त्रिगुणितास्त्रिंशत् पदे भवन्ति तन्मात्राभिर्निबद्धं क्रीडाचन्द्र इति छन्दः फणीन्द्रः पिङ्गलो भणतीति वित्त ॥ भूषणे तु प्रकारान्तरेणोक्तम्'ध्वजं चामरं गन्धकौँ रसः कुण्डलं तोमरं च तथा तालताटङ्कतूर्याणि शेषे गुरुद्वन्द्वमत्र। तदा क्रीडया चिह्नितं चन्द्रमेतद्भुजंगाधिराजः कविश्रेणिविस्मापकं सर्वलोकप्रियं स जगाद॥' क्रीडाचन्द्रमुदाहरति-जहा (यथा)जहाँ भूत वेताल णञ्चन्त गावन्त खाए कवन्धा
सिआफारफेकारहक्का चलन्ती फुले कण्णरन्धा । कआ दुट्ट फुट्टेइ मन्था कवन्धा णचन्ता हसन्ता
तहाँ वीर हम्मीर संगाममज्ज तुलन्ता जुलन्ता ॥ २३० ॥ [यत्र भूता वेताला नृत्यन्ति गायन्ति खादन्ति कबन्धा
शिवास्फारफेत्कारशब्दाश्चलन्ति स्फुटन्ति कर्णरन्ध्राणि ।। कायत्रुध्यति स्फुटति मस्तकं कबन्धा नृत्यन्ति हसन्ति
तत्र वीरहम्मीरः संग्राममध्ये त्वरितं युक्तः ॥] कश्चित्कविर्वीरहम्मीरस्य भीषणसमराङ्गणप्रयाणमनुवर्णयति-यत्र समरसमिनि भूता वेतालाश्च नृत्यन्ति गायन्ति खादन्ति च कबन्धानपमूर्धकलेवरान् महावीरान् । यत्र च शिवानां फेरवाणां स्फारा अतिदीर्घाः फेकारहक्काः फेत्कारशब्दाश्चलन्ति प्रसरन्ति । अत एव कर्णरन्ध्राणि स्फुटन्ति । किंच कायस्त्रुध्यति, मन्था मस्तकं स्फुटति, कबन्धाः शिरोरहिता वीरा नृत्यन्ति हसन्ति च । यत्र सहस्रवीरघातिनः सहस्रं वीरा यदा म्रियन्ते त. दैकः कबन्ध उत्तिष्ठत इति प्रसिद्धिः । अत्र तु कबन्धा नृत्यन्तीति बहुवचनमहिना स्फुटमेवातिभीषणत्वं समराङ्गणस्येति भावः । तहाँ तादृशातिभयजनकरणभूमौ वीरहम्मीरः संग्राममध्ये त्वरितं युक्तः प्रविष्ट इत्यर्थः ॥ उद्दवणिका यथा- Iss, ISS, Iss, Iss, Iss, iss, १८४४=७२॥ क्रीडाचन्द्रो निवृत्तः ॥
१. 'खादित्वा' रवि०. २. 'युध्यति' रवि०.