________________
२ परिच्छेदः ]
प्राकृतपिङ्गलसूत्रम् ।
१९९
अथ चर्चरी छन्द:
आइ रग्गण हत्थ काहल ताल दिज्जहु मज्जआ सद्द हार पन्त विवि सव्वलोअविबुज्झिआ । वे व काहल हार पूरहु सङ्घ कङ्कण सोहणा णारा भणन्त सुन्दरि चच्चरी मणमोहणा ।। २३१ ।। [ आदौ रगणो हस्त: काहलस्तालो दातव्यो मध्ये
शब्दो हारः पततो द्वावेव सर्वलोकविबुद्धाम् । द्वावेव काही हारं पूरय शङ्खः कङ्कणः शोभनः नागराजो भणति सुन्दरि चर्चरीं मनोमोहनाम् ||]
हे सुन्दरि, यत्रादौ रगणो मध्यलघुको गणो भवति, ततो हस्तः सगणः, ततः काहलो लघुः, ततस्ताल आदिगुरुस्त्रिकलो मध्ये दातव्यः, तदनन्तरं शब्दो लघुः, ततो हारा गुरुः, ततो विष्णविद्वावेव शब्दहारौ पततः, ततो वे विद्वावेव काहलौ लघू, ततो हारं गुरुं पूरय । तदनन्तरं शङ्खो लघुः, ततः शोभनः कङ्कणो गुरुरेव यत्र तत्सर्वलोकविबुद्धां समस्तच्छान्दसिकप्रसिद्धां मनोमोहनां श्रुतिसुखत्वाच्चर्चरीनामकं छन्दो नागराजः पिङ्गलो भणतीति विद्धि ॥ भूषणे तु प्रकारान्तरेणोक्तम् — 'हारयुक्त सुवर्णकुण्डलपाणिशङ्खविराजिता पादनूपुरसंगता सुपयोधरद्वयभूषिता । शोभिता वलयेन पन्नगराजपिङ्गलवर्णिता चचरी तरुणीव चेतसि चाकसीति सुसंगता ॥' तरुणीपक्षेऽर्थः स्पष्टः ॥ चर्चरीमुदाहरति - जहा (यथा ) -
पाअ णेउर झंझणकर हंससद्दसुसोहणा
थोथोलथणग्गणचइ मोतिदाम मणोहरा |
वामदाहिण वाण धावइ तिक्खचक्खुकडक्खआ
काहि पूरिस गेहमण्डणि एह सुन्दरि पेक्ख ॥ २३२ ॥ [पादे नृपुरं झणझणायते हंसशब्दसुशोभनं
स्तोकस्तोकस्तनाग्रे नृत्यति मौक्तिकदाम मनोहरम् ।
वामदक्षिणयोर्बाण (इव) धावति तीक्ष्णचक्षुः कटाक्षः कस्य पुरुषस्य गृहमण्डन्येषा सुन्दरी प्रेक्षस्व ||]
कश्चित्कविः परमरमणीयां कामपि कामिनीमनुवर्णयति - यस्याः पादे नूपुरं झणझणा१. 'थूलथोरथणग्ग (स्तोकस्थूलस्तनाग्रे ) ' रवि ० २. 'घालि (धारया)' रवि०. ३. 'प्रेक्षिता' रवि०.