________________
१९६
काव्यमाला ।
यते । कीदृशम् । हंसशब्दवत्सुशोभनम् । • यस्याश्चैत्तस्याः स्तोकस्तोकयोरभिनवोत्थि - तयोः स्तनयोर मनोहरं मुक्तादाम नृत्यति । अपि च वामदक्षिणयोः पार्श्वयोर्बाण इव धावति तीक्ष्णश्चक्षुः कटाक्षो यस्याः सेयमेवंविधा सुन्दरी कस्य सुकृतिनः पुरुषस्य गेहं मण्डयतीति तादृशीति प्रेक्षस्व तावदिति तद्रूपमुपवर्णयन्तं वयस्यं प्रति कस्यचिद्वचनमिति ॥ यथा वा [णीभूषणे ] - 'कोकिला कलकूजितं न शृणोषि संप्रति सादरं मन्यसे तिमिरापहारिसुधाकरं न सुधाकरम् । दूरमुज्झसि भूषणं विकलासि चन्दनमारुते कस्य पुण्यफलेन सुन्दरि मन्दिरं न सुखायते ॥ ' उट्टवणिका यथा - SIS, IS, I, SI, I, S, I, S, ॥, S, I, ऽ, १८x४=७२ ॥ यथा वा मार्कण्डेयभाषितचन्द्रशेखराष्टके - ' रत्नसानुशिरासनं रजताद्रिशृङ्गनिकेतनं शिञ्जिनीकृतपन्नगेश्वरमच्युतानलसायकम् । क्षिप्रदग्धपुरत्रयं त्रिदशालयै(?)रभिवन्दितं चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः ॥ चर्चरी निवृत्ता ॥
अथाष्टादशाक्षरप्रस्तार एव कानिचिद्वृत्तानि ग्रन्थान्तरादाकृष्य लिख्यन्ते । तत्र प्रथमं कुसुमितलता वेल्लिताछन्द:
स्याद्भूतः कुसुमितलतावेहिता स्तौ नयौ यौ ॥ २३३ ॥
यत्र भूतैः पञ्चभिः, ऋतुभिः षड्भिः, अवैः सप्तभिश्व विश्राम भवति । अथ चौ मगणतगणौ, अथ च नयौ नगणयगणौ, अनन्तरं यौ केवलौ यगणावेव भवतः । षड्डिगैरष्टादश वर्णाः पदे पतन्ति यत्र तत्कुसुमितलतावेल्लितानामकं छन्दो भवतीति ॥
यथा
क्रीडत्कालिन्दी ललित लहरी वाहिभिर्दाक्षिणात्यै
र्वातैः खेलद्भिः कुसुमितलता बेल्लिता मन्दमन्दम् । भृङ्गालीगीतैः किसलयकरोल्लासितैर्ला स्यलक्ष्मीं
तन्वाना चेतो रभसतरलं चक्रपाणेश्चकार ॥
उणिका यथा - Sss, ssi, ii, iss, Iss, Iss, १८x४ = ७२ ॥ यथा वा'गौडं पिष्टान्नं दधि सकृशरं निर्जलं मद्यमम्लम्' इत्यादि वाग्भटचिकित्साग्रन्थे ॥ कुसुम - तलतावेल्लिता निवृत्ता ॥
अथ नन्दनछन्द:
नजभजरैस्तु रेफसहितैः शिवैर्हयैर्नन्दनम् || २३४ ॥
यत्र नगणजगणभगण जगणरगणै रेफेण रगणेन सहितैरेतैः षड्भिर्गणैः अथ च शिवैरेकादशभिः, ततो हयैः सप्तभिः, विश्रामो यत्र तन्नन्दनमिति छन्दो भवतीति ॥
यथा
तरणिसुतातरङ्गपवनैः सलीलमान्दोलितं मधुरिपुपादपङ्कजरनः सुपूतपृथ्वीतलम् ।