________________
२ परिच्छेदः] प्राकृतपिङ्गलसूत्रम् ।
१९७ मुरहरचित्रचेष्टितकलाकलापसंस्मारकं
क्षितितलनन्दनं व्रज सखे सुखाय वृन्दावनम् ॥ उद्दवणिका यथा--0, is, sh, Isi, sis, sis, १८४४-७२॥ यथा वा'अकृत धनेश्वरस्य युधिः यः समेतमायोधनम्' इति भट्टिकाव्ये ॥ नन्दनं निवृत्तम् ॥
अथ नाराचछन्दः___ इह ननरचतुष्कसृष्टं तु नाराचमाचक्षते ॥ २३५॥
भोः शिष्याः, इहाष्टादशाक्षरप्रस्तारे नान्तगणद्वयरगणचतुष्टयाभ्यां सृष्टम्, अथ च दिनकररसविश्रामं छान्दसीया नाराचमित्याचक्षते ॥ षोडशाक्षरप्रस्तारे नराचः, अत्र तु नाराचः, इत्यनयोर्भेदः ॥ यथा
दिनकरतनयातटीकानने चारुसंचारिणी
श्रवणनिकटकृष्टमेणेक्षणा कृष्ण राधा त्वयि । ननु विकिरति नेत्रनाराचमेषातिहृच्छेदनं
तदिह मदनविभ्रमोद्धान्तचित्तां विधत्स्व द्रुतम् ॥ उद्दवणिका यथा-,, SIS, SIS, sis, sis, १८४४७२ ॥ यथा वा'रघुपतिरपि जातवेदोविशुद्धां प्रगृह्य प्रियाम्' इत्यादि रघौ ॥ नाराचो निवृत्तः ॥ अथ चित्रलेखाछन्दः
मन्दाक्रान्ता ययुगलजठरा कीर्तिता चित्रलेखा ॥ २३६॥ __ भोः शिष्याः, सप्तदशाक्षरप्रस्तारे सम(न)न्तर्गतमन्दाक्रान्ताछन्दसि यत्र यगणयुगले अर्थाद् गुरुद्वयस्थाने । (यस्या) एवंविध जठरं यस्याः । तथा च गुरुद्वयस्यादावेको लघुरधिको दातव्यः । तेन ययुगलजठरा अन्तःस्थितयगणा चेत्स्यात् तदा सैव चित्रलेखा कीर्तिता । एवं च-मगणभगणनगणयगणत्रयैरम्बुधि(४)हय(७)मुनि(७)भिर्विरचितविरतिश्चित्रलेखेति फलितोऽर्थः ॥ यथा
शङ्केऽमुष्मिञ्जगति मृगदृशां साररूपं यदासी
दाकृष्येदं व्रजयुवतिसमा वेधसा सा व्यधायि । नैतादृक्चेत्कथमुदधिसुतामन्तरेणाच्युतस्य
प्रीतं तस्या नयनयुगमभूचित्रलेखाद्भुतायाम् ॥ उद्दवणिका यथा-sss, su, m, Iss, Iss, Iss, १८४४=७२ ॥ चित्रलेखा निवृत्ता॥