________________
•
२ परिच्छेदः ]
प्राकृतपिङ्गलसूत्रम् ।
१९३
द्धकायः सर्पराजः पिङ्गलो जल्पतीति ॥ वाणीभूषणे तु प्रकारान्तरेणोक्तम्- 'आदौ कृत्वा कर्णे कुण्डलयुक्तं हारयुगं दत्त्वाथो कुर्यात्ताटङ्कं पादं कुरु सन्मञ्जीरयुगाभ्यां युक्तम् । कृत्वा तातं कुन्तीपुत्रसमेतं वै गुरुयुग्मं दत्त्वा मञ्जीरा सा नागाधीशनिदिष्टा राजति सैषा वक्रे ॥
मीरामुदाहरति — जहा (यथा ) -
गज्जे मेहा णीलाकार सद्दे मोरउ उच्चारावा
ठामा ठामा विज्जू रेहउ पिङ्गा देहउ किज्जे हारा |
फुल्ला णीवा वोल्ले भम्मरु दक्खा मारुअ वीअन्ताए
हजे जे काहे किज्जउ आरू पाउस कीलं ताए ॥ २२८ ॥ [गर्जन्ति मेघा नीलाकाराः शब्दायन्ते मयूरा उच्चारावाः
स्थाने स्थाने विद्युद्राजते पिङ्गदेहा क्रियन्ते हाराः । फुल्ला नीपा गुञ्जन्ति भ्रमरा दक्षो मारुतो वाति
हञ्जे हञ्जे किं क्रियते आगता प्रावृट् क्रीड तावत् ॥ ]
काचित्प्रोषितपतिकां सखीमाह - हे सखि, नीलाकारा मेघा गर्जन्ति । उच्चारावा मयूराः शब्दं कुर्वन्ति अतिदीर्घा के कामुच्चारयन्तीत्यर्थः । स्थाने स्थाने पिङ्गदेहा विद्युद्राजते । हाराः स्रजः क्रियन्ते । यतः नीपाः कदम्बाः फुल्लाः । भ्रमरा मधुकरास्तेष्वेव गुञ्जन्ति । किं च दक्षो मारुतो वाति । अतो हे हजे नीचे कथं क्रियते आगता प्रावृट् कान्तो नागतः, अतः क्रीड तावत् । मनोभिलषिता लिङ्गन निधुवनादिकं यथा भवति तथाभिसारयास्मिन्नवसरे कंचन युवानमिति भावः ॥ यथा वा [णीभूषणे ] - 'प्रौढध्वान्ते गर्जद्वारिदधाराधारिणि काले गत्वा त्यक्त्वा प्राणानग्रे कौलसमाचारानपि हित्वा यन्ती । कृत्वा सारङ्गाक्षी साहसमुच्चैः केलिनिकुञ्जं शून्यं दृष्ट्वा प्राणत्राणं भावि कथं वा नाथ वद प्रेयस्याः ॥' उद्यवणिका यथाss, ss, ss, s, IS, S, S, I, I, S, S, S, S, १८x४ = ७२ ॥ मञ्जीरा निवृत्ता ॥ अथ क्रीडाचन्द्रछन्दः -
ज इन्दासणा एक गण्णा सु होवेइ पाए हि पाए
हा अट्ठ वण्णा सुहावेइ दण्डा सुठाए सुठाए । दहा तिणिगुण्णा जहा सव्वला होइ मत्ता सुपाए
फणिन्दा भणन्ता किलाचन्द छन्दा णिबद्धाइ जाए || २२९||
१. 'विद्युद्रेखा' रवि०. २. 'पिव्वे (पिबन्ति ) ' रवि ० . ३. ' की अन्ताए (क्रीडन्ती) ' रवि ०. ४. ' तरण्डा दहा ह सोहेइ (तत्राष्टादश तरण्डा अक्षराणि स्थाने स्थाने शोभन्ते) ' रवि ०. २५