________________
काव्यमाला |
गौरी कान्तिः प्रकृतिरुचिरा रम्याङ्गरागच्छदा सा कंसारजनि न कथं राधा मनोहारिणी ॥'
उवणिका यथा - Sss, s॥, ॥, sss, ॥s, I, S, १७४४ = ६८ ॥ हारिणी निवृत्ता ॥ अथ भाराकान्ता छन्द:
भाराक्रान्ता मभनरसला गुरुः श्रुतिषड्हयैः || २२६ ।। यत्र मगणभगणनगणरगणसगणलघवः, अथ च गुरुर्यत्र, श्रुतिषड्हयैर्विरतिश्च यत्र तद्भाराक्रान्ताच्छन्दः ॥
यथा
१९२
'भाराक्रान्ता मम तनुरियं गिरीन्द्रविधारणा
त्कम्पं धत्ते श्रमजलकणं तथा परिमुञ्चति ।
इत्थं शृण्वन्नयति जलदस्वनाकुलबलवी
संश्लेषोत्थं स्मरविलसितं गुरुं विलोक्य हरिः ॥'
उवणिका यथा - Sss, sil, II, sss, s॥, I, S, १७x४=६८॥ भाराकान्ता निवृत्ता ॥
त्रापि प्रस्तारगत्या सप्तदशाक्षरस्यैकं लक्षमेकत्रिंशत्सहस्राणि द्विसप्ततिश्च १३१०७२ भेदाः । तेषु कियन्तो भेदा उक्ताः शेषभेदाः सुधीभिः प्रस्तार्या करादुदाहर्तव्याः । इत्यलमतिविस्तरेण ॥
अथाष्टादशाक्षरप्रस्तारे मञ्जीराछन्दः—
कुन्तीपुत्ता तिण्णा दिण्णउ मन्था संठवि एक्का पाए
हारा हत्था दुण्णा कङ्कणु गन्धा संठवि जग्गा जाए । चारी हारा भव्वाकाराउ पाआअन्तहि सज्जीआए
सप्पाराआ सुद्धाकाअउ जम्पे पिङ्गल मञ्जीरा ए ॥ २२७ ॥ [ कुन्तीपुत्रास्त्रयो दीयन्ते मस्तके संस्थापयैकं पादे
हारं हस्तं द्विगुणः कङ्कणो गन्धे युग्मं संस्थाप्यते यत्र । चत्वारो हारा भव्याकाराः पादान्ते सज्जीकृताः
सर्पराजः शुद्धकायो जल्पति पिङ्गलो मञ्जीरैतत् ॥
भोः शिष्याः, यत्र मन्था मस्तके | आदावित्यर्थः । तत्र त्रयः कुन्तीपुत्राः कर्णा गुरुद्वयात्मका गणा दीयन्त इत्यर्थः । ततः पादे एकं हारं गुरुं ततो हस्तः सगणः, तदन्ते दुष्णा कङ्कणु द्विगुणः कङ्कणो गुरुद्वयम्, ततो गन्धयुग्मं लघुद्वयं संस्थाप्यते, यत्र पादान्ते भव्याकाराश्चत्वारो हारा गुरवः सज्जीकृताः प्राप्ता यत्र एतन्मञ्जीरानामकं छन्दः शु