________________
२ परिच्छेदः]
प्राकृतपिङ्गलसूत्रम् ।
अथ नर्दटकं छन्द:--
यदि भवतो नजौ भजजला - गुरु नर्दटकम् ॥ २२३ ॥
यदि प्रथमं नजौ नगणजगणौ भवतः, ततो भगणजगण गणलघवः, अथ च गुरुर्भवति यत्र तन्नर्दटकं छन्दः ॥
यथा
'व्रजवनितावसन्तलतिकाविलसन्मधुपं मधुमथनं प्रणम्रजनवाञ्छितकल्पतरुम् । विभुमभिनीति कोऽपि सुकृती मुदितेन हृदा
रुचिरपदावलीघटितनर्दटकेन कविः ॥'
उवणिका यथा ॥, ISI, SI, ISI, ISI, I, S, १७४४= ६८ ॥ यथा वा भा गवते दशमस्कन्धे – 'जय जय जयजामजितदोषगृभीतगुणाम्' इत्यादि ॥ नर्दटकं निवृत्तम् ॥
अथ कोकिलकं छन्दः -
हयऋतुसागरैर्यतियुतं वद कोकिलकम् || २२४ ॥
हयाः सप्त, ऋतवः षट्, सागराश्चत्वारः, तैर्विरतियुक्तमिदमेव कोकिलकमिति वृत्तं वदेति । अत्र च विश्रामकृतो भेदः, गणास्त एवेति विवेकः ॥
यथा
'लसदरुणेक्षणं मधुरभाषणमोदकरं
मधुसमागमे सरसि केलिभिरुल्लसितम् । अतिललितद्युतिं रविसुतावनकोकिलकं
ननु कलयामि तं सखि सदा हृदि नन्दसुतम् ॥' उवणिका सैव, यतिकृत एव भेदः ॥ कोकिलकं निवृत्तम् ॥ अथ हारिणी छन्द:
यथा---
१९१
वेदर्श्वश्वैर्मभनभयला गश्चेत्तदा हारिणी || २२५ ॥
यदि प्रथमं वेदैः, तत ऋतुभिः, तदनन्तरमवैर्विरतिः, अथ च - मभनमयला म गणभगणनगणमगणयगणलघवः, ततो गुरुर्भवति, तदा हारिणी छन्दो भवतीति ॥
'यस्या नित्यं श्रुतिकुवलये श्रीशालिनी लोचने
रागः स्वीयोऽधरकिसलये लाक्षारसारञ्जनम् |