Book Title: Prakrit Pingal Sutrani
Author(s): Lakshminath Bhatta, Sivdatta Pt
Publisher: Tukaram Javaji
View full book text
________________
१६८
काव्यमाला। भेदानाम् । तेषु कियन्तो भेदाः प्रदर्शिताः। शेषभेदाः सुधीभिराकरतः स्वमत्या वा प्रस्तार्य स्वयमूहनीया इति दिक् ॥ अथ पञ्चदशाक्षरप्रस्तारे भ्रमरावली छन्दो लक्ष्यते
कर पञ्च पसिद्ध विलद्धवरंरअणं
पभणन्ति मणोहर छन्दवरं रअणम् । गुरु पञ्च दहा लहु एरिसिअं रइअं
भमरावलि छन्द पसिद्ध किअं ठइअम् ॥ १८५ ॥ [करैः पञ्चभिः प्रसिद्धं विलब्धवररचनं
प्रभणन्ति मनोहरं छन्दोवरं रत्नम् । गुरवः पञ्च दश लघव एतादृशं रचितं
भ्रमरावली छन्दः प्रसिद्धं कृत्वा रचितम् ॥] भोः शिष्याः, यत्र करैः पञ्चभिः सगणैर्गुर्वन्तगणैर्विशेषेण लब्धं वरं रचनं यत्र तत् मनोहरं छन्दस्सु [उत्तमं] रत्नमाचार्याः प्रभणन्ति । अथ च-यत्र गुरवः पञ्च, लघवो दश, तदेतादृशं छन्दो भ्रमरावलीति रचितं पिङ्गलेन प्रसिद्धं कृत्वा स्थापितम् । इदानींतनैराचार्यैरिति ॥ वाणीभूषणे तु–'भुजसंगतशङ्खयुगा वलयाकलिता करपुष्पसुगन्धवती रसना रुचिरा । कनकद्वयनूपुरचारुतरा जयति भ्रमरावलिका भुजगाधिपदुर्ललिता ॥' द्वितीयोऽर्थः स्पष्टः ॥ भ्रमरावलीमुदाहरति-जहा (यथा)
तुअ देव दुरित्तगणाहरणा चरणा __ जइ पावउ चन्दकलाभरणा सरणा । परिपूजउ तेज्जिअ लोभ मणा भवणा
सुह दे मह सोकविणासमणा रमणा ॥ १८६ ॥ [तव देव दुरितगणहरणश्चरणो (?) ___ यदि प्राप्नोमि चन्द्रकलाभरण शरणम् । परिपूजयामि त्यक्त्वा लोभे मनो भवनं
सुखं देहि मह्यं शोकविनाशमना रमण ॥] १. 'तुअ देउ-' इति पठित्वा 'तव देव दुरितगणहरणौ चरणौ यदि प्राप्नोमि । च. न्द्रकलाभरणौ शरणौ ।' 'चन्द्रकलाभरणौ' इत्यनेन चरणस्य नखाश्चन्द्रकलावद्वर्णिताः. एतादृशौ चरणौ परिपूजयामि' इति रविदासः.

Page Navigation
1 ... 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256