Book Title: Prakrit Pingal Sutrani
Author(s): Lakshminath Bhatta, Sivdatta Pt
Publisher: Tukaram Javaji
View full book text
________________
१८४
काव्यमाला।
यथा
'दुर्जयदनुजश्रेणीदुश्चेष्टाशतचकिता ___ यद्भुजपरिघत्राता याता साध्वसविगमम् । दीव्यति दिविषन्माला स्वैरं नन्दनविपिने
गच्छत शरणं कृष्णं तं भीता भवरिपुतः ॥' उद्दवणिका यथा-su, us, sss, ssh, I, 5, १६x४=६४ ॥ चकिता निवृत्ता॥ अथ मदनललिताछन्दः__म्भौ नो नौ गो मदनललिता वेदैः षडतुभिः ॥ २१२॥ यत्र म्भौ मगणभगणौ । अथ च नो नगणः, ततो नौ मगणनगणौ भवतः ततश्च गो गुरुर्भवति प्रथमं चतुभिः ततः षड्भिः पुनरपि षड्भिरेव विरतिर्यत्र तन्मदनललिता छन्दः॥ यथा
'विभ्रष्टस्रग्गलितचिकुरा धौताधरपुटा ___ म्लायत्पत्रावलिकुचतटोच्छासोर्मितरला । राधात्यर्थ मदनललितान्दोलालसवपुः
कंसाराते रतिरसमहो चक्रेऽतिचटुलम् ॥' उद्दवणिका यथा-sss, su, m, sss,1, 5,१६x४=६४॥ मदनललिता निवृत्ता॥ अथ वाणिनी छन्दः
नजभजरैः सदा भवति वाणिनी गयुक्तैः ॥ २१३ ॥ नगणजगणभगणजगणरगणैः गयुक्तैर्गुरुसहितैः पञ्चभिरेतैर्गणैर्वाणिनीछन्दः ॥
यथा
'स्फुरतु ममाननेऽद्य ननु वाणि नीतिरम्यं
तव चरणप्रसादपरिपाकतः कवित्वम् । भवजलराशिपारकरणक्षमं मुकुन्दं
सततमहं स्तवैः स्वरचितैः स्तवानि नित्यम् ॥ उध्वणिका यथा-n, is, su, ISI, SIS, 5, १६४४६४ ॥ वाणिनी निवृत्ता॥ अथ प्रवरललितं छन्दः
यमौ नः स्रौ गश्च प्रवरललितं नाम वृत्तम् ।। २१४॥ यत्र यमौ यगणभगणौ। अथ च नगणः, ततः स्रौ सगणरगणौ भवतः, ततश्चेद्गुरुर्भवति तदा प्रवरललितं नाम वृत्तं भवति ॥

Page Navigation
1 ... 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256