Book Title: Prakrit Pingal Sutrani
Author(s): Lakshminath Bhatta, Sivdatta Pt
Publisher: Tukaram Javaji
View full book text
________________
२ परिच्छेदः]
प्राकृतपिङ्गलसूत्रम् ।
यथा
'भुजोत्क्षेपः शून्ये चलवलयझंकारयुक्तो
मुधापादन्यासप्रकटिततुलाकोटिनादः । स्मितं वक्रेऽकस्मादृशि पटुकटाक्षोर्मिलीला
हरौ जीयादीदृक्प्रवरललितं बल्लवीनाम् ॥' उद्दवणिका यथा-Iss,sss,m, us,sis, 5, १६४४०६४॥प्रवरललितं निवृत्तम्।। अथ गरुडरुतं छन्दः
गरुडरुतं नजौ भजतगा यदा स्युस्तदा ॥ २१५॥ यदा नजौ नगणजगणौ भवतः, ततो भजतगाः भगणजगणतगणगुरवः स्युः, तदा गरुडरुतं नाम वृत्तं भवतीति ॥ यथा'अमरमयूरमानसमुदे पयोदध्वनि
र्गरुडरुतं सुरारिभुजगेन्द्रसंत्रासने । धरणिभरावतारविधिडिण्डिमाडम्बरः
स जयति कंसरङ्गभुवि सिंहनादो हरेः ॥' उद्ववणिका यथा-1, ISI, SI, Isi, ss), S, १६४४६४॥ गरुडरुतं निवृत्तम् ॥ अथ प्रस्तारान्त्यभेदमचलधृतिवृत्तमभिधीयते
द्विगुणितवसुलघुभिरचलधृतिरिति ॥ २१६ ॥ यत्र द्विगुणिता वसुलघवः षोडशापि वर्णा लघवोऽर्थाद्भवन्ति, तदचलधृतिरिति वृत्तं भवतीति लघ्वन्तेन नगणपञ्चकेनेति फलितोऽर्थः ॥ यथा'तरणिदुहितृतटरुचिरतरवसति
रमरमुनिजनसुखविहितधृतिरिह । मुररिपुरभिनवजलधररुचितनु
रचलधृतिरुदयति सुकृतिहृदि खलु ॥' उद्दवणिका यथा-॥, , , , , , १६४४६४ ॥ अचलधृतिनिवृत्ता ॥ अत्रापि प्रस्तारगत्या षोडशाक्षरस्य . पञ्चषष्टिसहस्राणि पञ्च शतानि षट्त्रिंशदुत्तराणि ६५५३६ भेदाः, तेषु कियन्तो भेदा लक्षिताः । शेषभेदास्तीक्ष्णमतिभिराकरान्निजबुद्ध्यावा प्रस्तार्य लक्षणीया इति दिक् ॥

Page Navigation
1 ... 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256