Book Title: Prakrit Pingal Sutrani
Author(s): Lakshminath Bhatta, Sivdatta Pt
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 205
________________ २ परिच्छेदः] प्राकृतपिङ्गलसूत्रम् । यथावा • 'करादस्य भ्रष्टे ननु शिखरिणी दृश्यति शिशो- . विलीनाः स्मः सत्यं नियतमवधेयं तदखिलैः । इति त्रस्योद्गोपानुचितनिभृतालापजनितं स्मितं बिभ्रदेवो जगदवतु गोवर्धनधरः ॥ उद्दवणिका यथा-Iss, sss, I, IIs, su, ।, 5, १७४४=६८ ॥ शिखरिणी निवृत्ता ॥ . अथ मन्दाक्रान्ता छन्दः'मन्दाक्रान्ता हरति हृदयं कर्णताटङ्कयुग्मा प्रोद्यद्भावा करतललसत्कङ्कणा शङ्खयुक्ता । हारोत्कृष्टा ललितवलया राववन्नूपुराभ्यां विभ्राजन्ती सकलहृदयाह्लादिनी कामिनीव ॥' कामिनीपक्षे स्पष्टोऽर्थः ॥ छन्दोमार्यो तु गणभेदेनोक्तम्-'मन्दाक्रान्ताम्बुधिरसनगैर्मो भनौ गौ ययुग्मम् ।' यत्र मो मगणः, ततो भनौ भगणनगणौ भवतः, ततो गौ गुरुद्वयं ययुग्मं यगणद्वयं च यत्र भवति, अम्बुधयश्चत्वारः, रसाः षट्, नगाः सप्त, एतेषु च विश्रामो यस्यां सा मन्दाक्रान्ता तन्नामकं वृत्तमिति ॥ यथा 'कर्णाभ्यणे हितमवहिता वर्णयन्तश्चिरेण द्रागस्यन्तो हृदि कलुषितामानने शोणिमानम् । यान्तो भूमि नयनपयसां बिन्दवो मानवत्याः पादाम्भोजप्रणतमधुना कान्तमुत्थापयन्ती ॥' उध्वणिका यथा-ss, ss, m, us, s, I, s, SI,s, 5, १७४४६८॥ मन्दाक्रान्ता निवृत्ता ॥ अथ हरिणी छन्दःद्विजवरमुखी भास्वद्रूपा सकुण्डलकर्णका ललितवलया हारोंत्कृष्टा पयोधरभूषिता । कनकरसनारावैर्युक्ता लसद्वरनूपुरा हरति हरिणी केषां चित्तं न योषिदिवाधुना ॥ २२१ ॥ .

Loading...

Page Navigation
1 ... 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256