________________
२ परिच्छेदः]
प्राकृतपिङ्गलसूत्रम् ।
यथावा
• 'करादस्य भ्रष्टे ननु शिखरिणी दृश्यति शिशो- .
विलीनाः स्मः सत्यं नियतमवधेयं तदखिलैः । इति त्रस्योद्गोपानुचितनिभृतालापजनितं
स्मितं बिभ्रदेवो जगदवतु गोवर्धनधरः ॥ उद्दवणिका यथा-Iss, sss, I, IIs, su, ।, 5, १७४४=६८ ॥ शिखरिणी निवृत्ता ॥ . अथ मन्दाक्रान्ता छन्दः'मन्दाक्रान्ता हरति हृदयं कर्णताटङ्कयुग्मा
प्रोद्यद्भावा करतललसत्कङ्कणा शङ्खयुक्ता । हारोत्कृष्टा ललितवलया राववन्नूपुराभ्यां
विभ्राजन्ती सकलहृदयाह्लादिनी कामिनीव ॥' कामिनीपक्षे स्पष्टोऽर्थः ॥ छन्दोमार्यो तु गणभेदेनोक्तम्-'मन्दाक्रान्ताम्बुधिरसनगैर्मो भनौ गौ ययुग्मम् ।' यत्र मो मगणः, ततो भनौ भगणनगणौ भवतः, ततो गौ गुरुद्वयं ययुग्मं यगणद्वयं च यत्र भवति, अम्बुधयश्चत्वारः, रसाः षट्, नगाः सप्त, एतेषु च विश्रामो यस्यां सा मन्दाक्रान्ता तन्नामकं वृत्तमिति ॥
यथा
'कर्णाभ्यणे हितमवहिता वर्णयन्तश्चिरेण
द्रागस्यन्तो हृदि कलुषितामानने शोणिमानम् । यान्तो भूमि नयनपयसां बिन्दवो मानवत्याः
पादाम्भोजप्रणतमधुना कान्तमुत्थापयन्ती ॥' उध्वणिका यथा-ss, ss, m, us, s, I, s, SI,s, 5, १७४४६८॥ मन्दाक्रान्ता निवृत्ता ॥ अथ हरिणी छन्दःद्विजवरमुखी भास्वद्रूपा सकुण्डलकर्णका
ललितवलया हारोंत्कृष्टा पयोधरभूषिता । कनकरसनारावैर्युक्ता लसद्वरनूपुरा
हरति हरिणी केषां चित्तं न योषिदिवाधुना ॥ २२१ ॥ .