SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ १८८ काव्यमाला। ... तरुण तरुपल्लवा महुर माहवीवल्लिआ वितर सहि णेत्तआ समअमाहवा पत्तआ ॥ २२० ॥ [वहति मलयानिलो विरहिचेतःसंतापनः • कूजति पिकः पञ्चमं विकसितं फुलकिंशुकं वनम् । तरुणास्तरुपल्लवा मधुरा माधवीवल्लिका वितर सखि नेत्रं माधवसमयः प्राप्तः ॥] काचिती कान्तानुनयमनुगृह्णती नायिकामाह--मलयानिलो दक्षिणानिलो वहति । कीदृशः । विरहिणां चेतः संतापयन्ति तादृशः संतापनः । किंच पिकोऽपि पश्चमं कूजति । प्राकृते पूर्वनिपातानियमात् । फुल्लकिंशुकं वनं विकसितं नवपलाशं वनमपि विकसितम् । तरूणां पल्लवा अपि तरुणा नवीना जाताः । माधवी वासन्ती मल्लिका मधुरातिमनो. हराभूत् । अतो हे सखि, नेत्रं वितर, अस्मिन्प्राणनाथे यतो माधवसमयोऽयं प्राप्त इति ॥ यथा वा[णीभूषणे]-'क्वचिदपि वयस्यया सह विनोदमातन्वती कतिपयकथारसैनयति वासरीयां रुजम् । सुभग तव कामिनी समधिगम्य सा यामिनीमनुभवति यामिनी मद. नवेदनामन्ततः ॥' उदृवणिका यथा-m, ISI, SI, Isi, ss, is, १७४४६८॥ मालाधरो निवृत्तः ॥ अथ सप्तदशाक्षरप्रस्तार एव कानिचिद्वृत्तानि ग्रन्थान्तरादाकृष्य लिख्यन्ते । तत्र प्र. थमं शिखरिणी छन्दः-[वाणीभूषणे] "ध्वजः कर्णो हारौ द्विजवरगणस्थो रसयुतः समुद्रो रत्नं च प्रभवति यदा सप्तदशभिः । भुजंगेन्द्रोद्दिष्टा विबुधहृदयाह्लादजननी रसै रुदैर्यस्या विरतिरिह सैषा शिखरिणी ॥' यगणमगणनगणसगणभगणलघुगुरुभी रसै रुदैश्च कृतयतिः शिखरिणीति फलितोऽर्थः॥ तदुक्तं छन्दोमार्याम् –'रस रुद्वैश्छिन्ना यमनसभला गः शिखरिणी' इति ॥ यथा'निविष्टायाः कोपाद्गुरुसदसि पङ्केरुहदृशः पदोपान्ते छायामुपनयति मूर्ध्नः प्रणयिनि । तया चक्षुर्लीलाकमलरजसा दूषितमिति द्रुतं मुक्ता मुक्ताफलपरिणता बाप्पकणिकाः ॥' १. 'पेल्लिा ' रवि०. २. 'मउलु (मुकुलिता)' रवि०.
SR No.023478
Book TitlePrakrit Pingal Sutrani
Original Sutra AuthorN/A
AuthorLakshminath Bhatta, Sivdatta Pt
PublisherTukaram Javaji
Publication Year1894
Total Pages256
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy