Book Title: Prakrit Pingal Sutrani
Author(s): Lakshminath Bhatta, Sivdatta Pt
Publisher: Tukaram Javaji
View full book text
________________
२ परिच्छेदः) प्राकृतपिङ्गलसूत्रम् ।
कश्चित्कविः कस्याप्यगण्य[पुण्य]पुञ्जस्य विलासिनो मदनविनोदसदनमुपवर्णयतियुवतिसहितमेतादृशं मन्दिरं रेहइ शोभत इत्यर्थः । कीदृशम् । झणज्झणितमित्यनुकरणम् । तादृशं भूषणं यत्र । पुनः रणरणावित्यनुकृत्या तादृशः काचीगुणो मेखलाकलापो यत्र तत्तथा । पुनः सहासं मुखपङ्कजं यत्र । पुनः मदनकलिलीलासरः श्रमापहारकत्वात् । कंदर्पकेलिसरसीत्वेनोपन्यस्तामित्यजहल्लिङ्गत्वेन्ते सर इति व्याख्येयम् । पुनः निशासुखमनोहरं रजनीजनितालिङ्गननिधुवनान्तसुखजातालम्बनत्वेन परममनोहरमिति सहृदयवेद्यः पन्था इति ॥ यथा वाणीभूषणे]—'क्षताधरतटी घनश्वसितमङ्गरागव्ययो दृशोरपि च शोणिमा भवति कारणादन्यतः । इदं तव परप्रियानिभृतसंगमव्यञ्जकं मुखे यदिदमअनं रहसि चार्धचन्द्रं गले ॥' उवणिका यथा-5), us, Is, us, ।ऽऽ,1, 5, १७४४-६८ ॥ पृथ्वी निवृत्ता ॥ अथ मालाधरच्छन्दःपढम दिअ विप्पआ तहवि भूअइ थप्पिआ
चरणगण तीअओ तह अ भूअइ दीअओ । चमरजुअअग्गला विमलगन्ध हारुज्जला
भणइ फणिणाहरा मुणहु छन्द मालाहरा ॥ २१९ ॥ [प्रथमं दीयते विप्रस्तथापि भूपतिः स्थाप्यते
चरणगणस्तृतीयस्तथा च भूपतिर्दीयते । चमरयुगाधिको विमलगन्धो हारोज्ज्वलो
भणति फणिव्याघ्रो जानीत छन्दो मालाधरम् ॥] भोः शिष्याः, यत्र प्रथमं दीयते विप्रश्चतुर्लध्वात्मको गणः, तथापि भूपतिर्जगणः स्थाप्यते, ततश्चरणो भगणस्तृतीयः, तथा भूपतिर्जगणो दीयते, ततश्चमरयुगेनाधिको वि. मलोऽतिसुन्दरो गन्धो लघुः, ततो हारो गुरुयंत्र तत्कणिणाहरा फणिव्याघ्रः फणिश्रेष्ठः पिङ्गलो मालाधर इति छन्दो भणति जानीत तदिति ॥ वाणीभूषणे तु प्रकारान्तरेणीक्तम् –'द्विजवरगणान्वितो गजपतिः श्रिततूर्यवान्करतलपरिस्फुरत्कनककङ्कणेनान्वितः । सुरपतिगुरुश्रिया परिगतः समन्तात्सखे जयति भुवि वृत्तभूपतिरयं तु मालाधरः ॥' मालाधरमुदाहरति-जहा (यथा)वहइ मलआणिला विरहिचेउसंताबणा
वुलइ पिक पञ्चमा विअसु केसुफुल्ला वणा । १. 'फणिसाहरा (फणिसारः) रवि०. २. 'रुवइ (रौति) रवि०.

Page Navigation
1 ... 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256