Book Title: Prakrit Pingal Sutrani
Author(s): Lakshminath Bhatta, Sivdatta Pt
Publisher: Tukaram Javaji
View full book text
________________
१८८
काव्यमाला।
... तरुण तरुपल्लवा महुर माहवीवल्लिआ
वितर सहि णेत्तआ समअमाहवा पत्तआ ॥ २२० ॥ [वहति मलयानिलो विरहिचेतःसंतापनः • कूजति पिकः पञ्चमं विकसितं फुलकिंशुकं वनम् । तरुणास्तरुपल्लवा मधुरा माधवीवल्लिका
वितर सखि नेत्रं माधवसमयः प्राप्तः ॥] काचिती कान्तानुनयमनुगृह्णती नायिकामाह--मलयानिलो दक्षिणानिलो वहति । कीदृशः । विरहिणां चेतः संतापयन्ति तादृशः संतापनः । किंच पिकोऽपि पश्चमं कूजति । प्राकृते पूर्वनिपातानियमात् । फुल्लकिंशुकं वनं विकसितं नवपलाशं वनमपि विकसितम् । तरूणां पल्लवा अपि तरुणा नवीना जाताः । माधवी वासन्ती मल्लिका मधुरातिमनो. हराभूत् । अतो हे सखि, नेत्रं वितर, अस्मिन्प्राणनाथे यतो माधवसमयोऽयं प्राप्त इति ॥ यथा वा[णीभूषणे]-'क्वचिदपि वयस्यया सह विनोदमातन्वती कतिपयकथारसैनयति वासरीयां रुजम् । सुभग तव कामिनी समधिगम्य सा यामिनीमनुभवति यामिनी मद. नवेदनामन्ततः ॥' उदृवणिका यथा-m, ISI, SI, Isi, ss, is, १७४४६८॥ मालाधरो निवृत्तः ॥
अथ सप्तदशाक्षरप्रस्तार एव कानिचिद्वृत्तानि ग्रन्थान्तरादाकृष्य लिख्यन्ते । तत्र प्र. थमं शिखरिणी छन्दः-[वाणीभूषणे]
"ध्वजः कर्णो हारौ द्विजवरगणस्थो रसयुतः
समुद्रो रत्नं च प्रभवति यदा सप्तदशभिः । भुजंगेन्द्रोद्दिष्टा विबुधहृदयाह्लादजननी
रसै रुदैर्यस्या विरतिरिह सैषा शिखरिणी ॥' यगणमगणनगणसगणभगणलघुगुरुभी रसै रुदैश्च कृतयतिः शिखरिणीति फलितोऽर्थः॥ तदुक्तं छन्दोमार्याम् –'रस रुद्वैश्छिन्ना यमनसभला गः शिखरिणी' इति ॥ यथा'निविष्टायाः कोपाद्गुरुसदसि पङ्केरुहदृशः
पदोपान्ते छायामुपनयति मूर्ध्नः प्रणयिनि । तया चक्षुर्लीलाकमलरजसा दूषितमिति
द्रुतं मुक्ता मुक्ताफलपरिणता बाप्पकणिकाः ॥' १. 'पेल्लिा ' रवि०. २. 'मउलु (मुकुलिता)' रवि०.

Page Navigation
1 ... 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256