Book Title: Prakrit Pingal Sutrani
Author(s): Lakshminath Bhatta, Sivdatta Pt
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 190
________________ १७४ काव्यमाला 1 तमानसे किमु चण्डि मानमनोरथेन विखिद्यसे ॥' उद्यवणिका यथा - IIS, ISI, ISI, S, ॥, S, I, S, १५४४=६० ॥ मनोहंसो निवृत्तः ॥ अथ मालिनी छन्द: पढम रससहित्तं मालिणी णाम वुत्तं परमतिअपसिद्धं वीअ ठा मोणिबद्धम् । सरगुरुजुअगन्धं अन्त कण्णाणिबद्ध भइ सरसछन्दं चित्तमज्जे णिहित्तम् || १९५ ॥ [प्रथमं रससहितं मालिनी नाम वृत्तं परमत्रिकप्रसिद्धं द्वितीयस्थाने मनिबद्धम् । शरगुरुयुतगन्धमन्तकर्णनिबद्धं भणति सरसच्छन्दश्चित्तमध्ये निहितम् ॥ ] भोः शिष्याः, यत्र प्रथमं परमत्रिकप्रसिद्धं परमो द्विलघ्वात्मको गणस्तादृशैस्त्रिभिः परमैः प्रसिद्धम्, रससहितं शृङ्गारादिरससहितं मालिनीति नाम तद्वृत्तं सरसम् । अत एव चित्तमध्ये निहितं छन्दः फणीन्द्रो भणतीति । कीदृशम् । वीअ ठा मोणिबद्धं परमत्रिका - नन्तरं यद्वितीयस्थानं तत्र मोनिबद्धं मगणेन गुरुत्रयात्मकेन गणेन निबद्धम् । पुनः शरो लघुः, ततो गुरुयुतं ततोऽपि गन्धो लघुः तस्याप्यन्ते कर्णेन द्विगुर्वात्मकेन गणेन नितरां बद्धं संयुक्तमित्यर्थः ॥ भूषणे तु – प्रकारान्तरेण लक्षितम्- 'द्विजकुसुम सुरूपा कर्णताटङ्कयुक्ता कनकवलयहारैर्मण्डिता युक्तशङ्खा । सुललितरसनासौ नूपुरश्रीसमेता हरति रसिकचित्तं मालिनी कामिनीव ॥' कामिनीपक्षेऽर्थः स्पष्टः ॥ नगणद्वयमगणयगणयुग्मयुक्तं वसुस्वरकृतविरामं मालिनी वृत्तमिति फलितोऽर्थः । अत एव छन्दोमञ्जर्याम् — 'ननमयययुतेयं मालिनी भोगिलौकैः' इत्युक्तमिति ॥ मालिनीमुदाहरति- -जहा (यथा ) - वहइ मलअवाओं हन्त कम्पन्त काआ हणइ सवणरन्धा कोइलालावबन्धा । सुणि दह दिसुं भिझंकारभारा हणइ हणइ हंजे चण्डचण्डालमारा || १९६ || [ वहति मलयवातो हन्त कम्पतो काया हन्ति श्रवणरन्धं कोकिलालापबन्धः । श्रूयन्ते दशदिशासु भृङ्गझंकारभारा हन्ति हन्ति ह चण्डचाण्डालमारः ||]

Loading...

Page Navigation
1 ... 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256