________________
१७४
काव्यमाला 1
तमानसे किमु चण्डि मानमनोरथेन विखिद्यसे ॥' उद्यवणिका यथा - IIS, ISI, ISI, S, ॥, S, I, S, १५४४=६० ॥ मनोहंसो निवृत्तः ॥ अथ मालिनी छन्द:
पढम रससहित्तं मालिणी णाम वुत्तं परमतिअपसिद्धं वीअ ठा मोणिबद्धम् ।
सरगुरुजुअगन्धं अन्त कण्णाणिबद्ध
भइ सरसछन्दं चित्तमज्जे णिहित्तम् || १९५ ॥ [प्रथमं रससहितं मालिनी नाम वृत्तं परमत्रिकप्रसिद्धं द्वितीयस्थाने मनिबद्धम् ।
शरगुरुयुतगन्धमन्तकर्णनिबद्धं
भणति सरसच्छन्दश्चित्तमध्ये निहितम् ॥ ]
भोः शिष्याः, यत्र प्रथमं परमत्रिकप्रसिद्धं परमो द्विलघ्वात्मको गणस्तादृशैस्त्रिभिः परमैः प्रसिद्धम्, रससहितं शृङ्गारादिरससहितं मालिनीति नाम तद्वृत्तं सरसम् । अत एव चित्तमध्ये निहितं छन्दः फणीन्द्रो भणतीति । कीदृशम् । वीअ ठा मोणिबद्धं परमत्रिका - नन्तरं यद्वितीयस्थानं तत्र मोनिबद्धं मगणेन गुरुत्रयात्मकेन गणेन निबद्धम् । पुनः शरो लघुः, ततो गुरुयुतं ततोऽपि गन्धो लघुः तस्याप्यन्ते कर्णेन द्विगुर्वात्मकेन गणेन नितरां बद्धं संयुक्तमित्यर्थः ॥ भूषणे तु – प्रकारान्तरेण लक्षितम्- 'द्विजकुसुम सुरूपा कर्णताटङ्कयुक्ता कनकवलयहारैर्मण्डिता युक्तशङ्खा । सुललितरसनासौ नूपुरश्रीसमेता हरति रसिकचित्तं मालिनी कामिनीव ॥' कामिनीपक्षेऽर्थः स्पष्टः ॥ नगणद्वयमगणयगणयुग्मयुक्तं वसुस्वरकृतविरामं मालिनी वृत्तमिति फलितोऽर्थः । अत एव छन्दोमञ्जर्याम् — 'ननमयययुतेयं मालिनी भोगिलौकैः' इत्युक्तमिति ॥ मालिनीमुदाहरति- -जहा (यथा ) -
वहइ मलअवाओं हन्त कम्पन्त काआ
हणइ सवणरन्धा कोइलालावबन्धा । सुणि दह दिसुं भिझंकारभारा
हणइ हणइ हंजे चण्डचण्डालमारा || १९६ || [ वहति मलयवातो हन्त कम्पतो काया
हन्ति श्रवणरन्धं कोकिलालापबन्धः । श्रूयन्ते दशदिशासु भृङ्गझंकारभारा
हन्ति हन्ति ह चण्डचाण्डालमारः ||]