________________
प्राक
२ परिच्छेदः] प्राकृतपिङ्गलसूत्रम् । अथ मनोहंसं छन्द:जिह आइ हत्थ णरेन्दविण्णवि दिज्जिआ
गुरु एक काहलवेवि तक्का किज्जिा । गुरु ठाइ गन्ध अ हार अन्तहि थप्पिआ
मणहंस छन्द पसिद्ध पिङ्गलजप्पिआ ॥ १९३ ।। यत्रादौ हस्तो नरेन्द्रद्वयं दीयते
गुरुरेकः काहलद्वयं तदनन्तरं क्रियते गुरुं स्थापयित्वा गन्धं च हारोऽन्ते स्थाप्यते
मनोहंसं छन्दः प्रसिद्धं पिङ्गलजल्पितम् ॥] भोः शिष्याः, यत्रादौ हस्तः सगणो गुर्वन्तगणः, ततो नरेन्द्रद्वयं जगणद्वयं दीयते, अनन्तरमेको गुरुः । तकइ तदनन्तरम् । काहलवेवि काहलद्वयं लघुद्वयं क्रियते, ततो गुरुं स्थापयित्वा गन्धं च लघुमपि स्थापयित्वेत्यर्थः । तथा-अन्ते यत्र हारो गुरुः स्थाप्यते तन्मनोहंसमिति प्रसिद्ध छन्दः पिङ्गलेन जल्पितमिति जानीत ॥ वाणीभूषणे तु-'सगणं विधाय पयोधरद्वयसुन्दरं भगणं ततो विनिधाय चामरतोमरम् । मनहंसवत्तमिदं च पश्चदशाक्षरं भणितं भुजंगमनायकेन मनोहरम् ॥' मनोहंसमुदाहरति-जहा (यथा)
जहि फुल्ल केसुअसोअचम्पअवञ्जुला __ सहकारकेसरगन्धलुद्धउ भम्मला । वह दक्खदक्खिण वाउ माणहभञ्जणा
महुमास आविअ लोअलोअणरञ्जणा ॥ १९४॥ [यत्र पुष्पिताः किंशुकाशोकचम्पकवञ्जुलाः
सहकारकेसरगन्धलुब्धा भ्रमराः । वहति दक्षो दक्षिणो वायुर्मानभञ्जनो
मधुमास आगतो लोकलोचनरञ्जनः ॥] काचिद्वसन्तमुपवर्णयन्ती प्रोषितपतिका निजसखीमाह-हे सखि, यत्र पुष्पिताः किंशुका अशोकाश्चम्पका वञ्जुलाश्च । वसन्ते पुष्पिता इति । किंच-सहकारकेसरगन्धलुब्धा भ्रमराः । वर्तन्त इति शेषः । अथ च-वहति दक्षो दक्षिणो वातः मानानां भञ्जनः, अतश्च मधुमासो वसन्तः समागतो लोकलोचनरञ्जनः ॥ यथा वाणीभूषणे]-'नवमअवजुलकुअकूजितकोकिले मधुमत्तचश्चलचञ्चरीककुलाकुले । समयेऽतिधीरसमीरकम्पि