________________
१७२
काव्यमाला ।। अत्र(?) सखि चन्द्रमुखि विंशतिर्ल घुमालका
कविवरः सर्पो भणति छन्दो निशिपालकम् ॥] हे सखि, पूर्व हारं गुरुं धारय ततस्त्रयः शराः । लघुत्रयमित्यर्थः । हिण्णि परि अनया परिपाट्या.त्रयो गणा गुर्वादि त्रिकलाः । पञ्चकला इत्यर्थः । अन्ते पञ्च[गण]कलगणत्रयावसाने रगणं मध्यलघुकं पञ्चकलमेव गणं कुरु ॥ तत्राक्षरनियममाह-अत्र छन्दसि पश्च गुरवः, पञ्च द्विगुणा [दश] लघवः । पदे पतन्तीति शेषः । मात्रानियममाह-हे च. न्द्रमुखि, एत्य निशिपालनानि वृत्ते विंशति घुमालाः (कलाः), तदेतनिशिपालाख्यं छन्दः कविषु वरो महाकवीन्द्रसर्पः पिङ्गलो भणतीति ॥ वाणीभूषणे तु प्रकारान्तरेणोक्तम्-'तालशररज्जुधररत्नवरसुन्दरं भावयुततालगतमन्त्यकृतचामरम् । शुद्धमतिनागपतिहृदयकृतसंगमं वृत्तनिशिपालमसिताक्षि हृदयंगमम् ॥' निशिपालमुदाहरति-जहा (यथा)जुन्झ भड भूमि पल उट्ठि पुण लग्गिा
सग्गमण खग्ग हण कोइ णहि भग्गिआ। वीर सर तिक्खपर कण्ण गुण अप्पिा
इत्थ तह जोह दह पाअ सह कप्पिा ॥ १९२॥ [युद्धे भटा भूमी पतन्ति उत्थाय पुनर्लगन्ति
स्वर्गमना[:] खड्नेन हन्ति कोऽपि नहि पलायितः । वीरैः शरास्तीक्ष्णफलाः कर्णे गुणमर्पिताः
इत्थं तथा योधा दंश पादेन सह कर्तिताः ॥] कश्चिद्वन्दी समरमुपवर्णयति-युद्धे समरे भटा योधा भूमौ पतन्ति, उत्थाय पुनर्लगन्ति च ।अभ्यमित्रमिति [शेषः]।ततश्च तादृशमहावीराहवे सकलोऽपि वीरवर्गः स्वर्गमनाः सन्नभिमुखं खङ्गेनैव धारातीर्थाशया हन्ति । अतश्च न कोऽपि हि पलायितः । अथच वी. रैस्तीक्ष्णफलाः शरा बाणाः कर्णे गुणं कृत्वा कर्णान्ताकृष्टशिञ्जिनीकं कार्मुकं विधायापिताः । परेष्वित्यर्थात् । इत्थं बाणपातनेनैव तथा दश योधा दशसंख्याकाः सुभटाः पा. देन चरणेन सह कप्पिआ कर्तिताः । खण्डशः कृता इत्यर्थः ॥ उद्दवणिका यथा-sm, su, sm, SIS, १५४४-६० ॥ यथा वाणीभूषणे]-'चन्द्रमुखि जीवमुषि वाति मलयानिले याति मम चित्तमिव पाति मदनानले । तापकरकामशरशल्यवरकीलितं मानमिह पश्य नहि कोपमतिशीलितम् ॥' निशिपालो निवृत्तः ॥
१. 'पुण्ण उठि' रवि०. २. 'पत्थे तह जोह दह चावे सह कम्पिआ (पार्थेन तत्र योजिता दश ततः सर्वे कम्पिताः) रवि०.३. 'स्वर्गमनसः खड्न नन्ति' इति छाया रवि०.