________________
२ परिच्छेदः] प्राकृतपिङ्गलसूत्रम् ।
१७१ जना ॥ भूषणे तु प्रकारान्तरेणोक्तम्-'हारवत्पयोधरत्रयं निधाय सुन्दरं चामरध्वजेन मण्डितं विधाय चामरम् । वृत्तराजमेतदेव नागराजभाषितं पण्डितावलीविनोदकारि चारुभाषितम् ॥' एतस्यैव ग्रन्थान्तरे (छन्दोमार्यो) तूणकमिति नामान्तरम् ॥ चामरमुदाहरति-जहा (यथा)झत्ति जोह सज्ज होह गज्ज वज्ज तं खणा
रोसरत्त गव्वगत्त हक दिज्ज भीसणा । धाइ आइ खग्ग पाइ दाणवा चलन्तउ
वीरपाअ णाअराअ कम्प भूतलन्तउ ॥ १९० ॥ [झटिति योधाः सज्जा भवत गर्जन्ति वाद्यानि तत्क्षणे
रोषारक्ता गर्वगता पूत्कुर्वन्ति भीषणाः । धावित्वागत्य खड्गं पातयित्वा दानवाश्चलन्ति
वीरपादैर्नागराजः कम्पितो भूतलान्तः ॥] कश्चित्कविर्देवासुरसंग्राममुपवर्णयति-भो योधाः सुभटाः, झटिति सज्जीभवत । यतो वाद्यानि डिण्डिमतूर्यादीनि गर्जन्ति तत्क्षणे रोषारक्तसर्वगात्राः पूत्कुर्वन्ति । भीषणा अतिभयानका दानवाः किंच धावित्वा आगत्य खड्गं पातयित्वा चलन्ति । समराङ्गण इति शेषः । अत एव वीराणां पादेन भूतलान्तर्भूमीतलमध्ये नागराजः शेषोऽपि कम्पितोऽभदिति ॥ यथा वा[णीभूषणे]-रासलास्यगोपकामिनीजनेन खेलता पुष्पपुञ्जमञ्जुकुञ्जमध्यगेन दोलता । तालनृत्यशालिगोपबालिकाविलासिना माधवेन जायते सुखाय मन्दहासिना ॥' उवणिका यथा-SISISISISISISIS १५४४६० ॥ चामरं निवृत्तम् ॥ अथ निशिपालछन्दःहारु धरु तिणि सरु हिँण्णि परि तिग्गणा
पञ्च गुरु दुण्ण लहु अन्त कुरु रग्गणा । एत्थ सहि चन्दमुहि वीस लहुमोलआ
कव्ववर सप्प भण छन्द णिसिपालआ ॥ १९१ ॥ [हारं धारय त्रयः शरा अनया परिपाट्या त्रयो गणाः
पञ्च गुरवो द्विगुणा.लघवोऽन्ते कुरु रगणम् । १. 'हारवत्पयोधरं मृगेन्द्रात्तु सुन्दरं चामरद्वयेन मण्डितं हि चामरम्' भूषणादर्शपाठः. २. 'शब्दं ददति' इति छाया रवि०. ३. 'हार करु (हारः क्रियते)' रवि०. ४. 'एण्णि' रवि०. ५. 'माणिआ (जानीहि) रवि. ६. 'कन्विमण' रवि०.